पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ कादम्बरी । वा गच्छतां परिलम्ब उत्पत्स्यते न वेति, कियद्भिर्वा दिवसैः परापतिष्यन्ति' इत्यनयैव चिन्तया शून्यहृदयः क्षणमिव स्थित्वा स्कन्धावारवार्तास्फुटीकरणाय वार्ताहरं विसर्ज्य बहु- दिवसान्तरितदर्शनस्य वैशम्पायनस्य प्रत्युद्गमनायात्मानं मोचयितुं पितुः पादमूलमयोत् । तैत्र चोभयतः ससंभ्रमापसृतप्रतीहार मण्डलवितीर्णविस्तीर्णालोकनमार्गो दूरादेवापसव्य- जानुकरतलावलम्बितविमलमणिकुट्टिमोदर संक्रान्तप्रतिमो द्विगुणायमानायतकुन्तलकलापः पितुः प्रणाममकरोत् । अथ तारापीडस्तथा दूरत एव कृतप्रणामं चन्द्रापीडमालोक्य निर्भरस्नेहगर्भेण सलिलभ- रमन्थरेणेव जलधरध्वानॅनिभेन स्वरेण सँधीरम् 'एह्येहि' इत्याहूय ससंभ्रमप्रधावितमपि संभावितशुकनासप्रणाममुपसृत्य पार्श्वे भूमावुपविशन्तमाकृष्य हठात्पादपीठे समुपवेश्याप- रिसमाप्तावलोकनस्पृहेण चक्षुषा सुचिरमालोक्यास्योपारूढयौवनभराभिरामतराण्यङ्गप्रत्य- ङ्गानि पाणिना स्पृष्ट्वा दर्शयञ्ञ्जुकनासमवादीत् - 'शुकनास, पश्येयमायुष्मतश्चन्द्रापीडस्यो- त्सर्पिणी महानीलमणिप्रभेव कनकशिखरिणः, गण्डमण्डलोद्भासिनी मदलेखेव गन्धद्विपस । सत्यां किमेते केयूरकप्रभृतयः शीघ्रमाशु यास्यन्ति गमिष्यन्ति न वा । अथवा गच्छतां व्रजतामन्तरा मध्ये परिलम्वि विलम्ब उत्पत्स्यते भविष्यति न वा । कियद्भिः कियन्मात्रैर्दिवसैर्वासरैः परापतिष्यन्त्यागमि- ष्यन्ति । अनयैव चिन्तया शून्यं मूढं हृदयं यस्यैवंभूतः क्षणमिव क्षणमात्रं स्थित्वा स्कन्धावारस्य सैन्यस्य वार्ता प्रवृत्तिस्तस्याः स्फुटीकरणं प्रकटीकरणं तस्मै वार्ताहरं संदेशहारकं विसर्ज्य गमनायादेशं दत्त्वा बहुदिव - सैरन्तरितं व्यवधानीकृतं दर्शनमवलोकनं यस्यैवंविधस्य वैशम्पायनस प्रत्युद्गमनायाभिमुखयानायात्मानं स्वं मोचयितुमुत्कलीकर्तुं पितुरतारापीडस्य पादमूलं चरणसमीपमयाद्गतवान् । तत्रेति । उभयत उभयपार्श्व ससंभ्रमेणापसृतं किंचित्पश्चाद्गतं यत्प्रतीहारमण्डलं द्वारपालसमूहं तेन वितीर्णो दत्तो विस्तीर्णो विशाल आलो- कनमार्गो निरीक्षणपन्था यस्य सः । दूरादेवेति । दूरादेव दविष्ठादेवापसव्यो दक्षिणो जानुर्नलकीलकः करतलं हस्ततलं ताभ्यामवलम्बितमालम्वनीकृतं विमलं निर्मलं यन्मणिकुटिमस्य मणिवद्धभूमेरुदरं मध्यं तत्र संक्रान्ता प्रतिविम्बिता प्रतिमा मूर्तिर्यस्य सः, अत एवोभयत्र दृश्यमानत्वाद्विगुणायमानो द्विगुणवदाचरमाण आयतो विस्तीर्णः कुन्तलकलापः केशसमूहो यस्यैवंभूतश्चन्द्रापीडः पितुरतारापीडस्य प्रणामं नमस्कार मकरो- दसृजत् । 'कुट्टिमोऽस्त्री निवद्धा भूः' इत्यमरः । अथेति । प्रणामानन्तरं तारापीडस्तथा तेन प्रकारेण दूरत एव दविष्ठादेव कृतप्रणामं विहितनमस्कारं चन्द्रापी- डमालोक्य निरीक्ष्य निर्भरं यथा स्यात्तथा स्नेहो हार्द गर्ने मध्ये यस्मिन्नेतादृशेन सलिलभरः पानीयभरस्तेन मन्थ- रेणेव स्निग्धेनेव जलधरस्य मेघस्य ध्वानो ध्वनिस्तस्य निभेन सदृशेन वरेण शब्देन सधीरं यथा स्यात्तथा एह्येह्या- गच्छागच्छेत्याहूयाह्वानं कृत्वा ससंभ्रमं सादरं सचकितं वा प्रभावितमपि त्वरितगत्या चलितमपि संभावितः सं- भावनाविषयीकृतः शुकनासस्य प्रणामो नमस्कारो येन स तमुपसृत्योपसरणं कृत्वा पार्श्वे भूमौ पृथिव्यामुपविशन्तं TTT i Anasa