पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६३ नान्यत्र क्षणमपि ददत्यवस्थातुम् | अपि चैतेऽनुग्राहकत्वादेवापरित्याज्याः, गुरुत्वादेव कृता- वष्टम्भाः, विस्तीर्णत्वादेवालङ्घनीयाः, प्रभूतत्वादेवापरिहार्याः । तदेभिरहं विनाप्यागमनाज्ञया सुदूरमपक्रान्तोऽपि बलादेवाकृष्य देवीपादमूलमानीये' इति । यया वानपेक्षितगमनाइया नियन्त्रणत्वाद्गतोऽहमिति विज्ञेप्तम्, सैव वाणी विज्ञापयति । यथा च मे न निष्फलमागमनं भवति, जगद्वा शून्यम्, तथा देव्यात्मसंधारणायात्मनैव यत्नः कार्य, इति संदिश्य पुनराह- 'पत्रलेखे, त्वयापि यान्त्याध्वनि न मद्विरहपीडा भावनीया, न शरीरसंस्कारेऽनादरः कर- णीय:, नाहारवेलातिक्रमणीया, न येनकेनचिदज्ञातेन पथा यातव्यम्, न यत्रतत्रैवानिरू- प्यावस्थातव्यम्, उषितव्यं वा । न यस्यकस्यचिदपरिज्ञायमानस्यान्तरं दातव्यम्, । सर्वदा शरीरेऽप्रमादिन्या भाव्यम् । किं करोमि । त्वत्तोऽपि मे वल्लभतरा देवीप्राणाः, येनैवमेका- किनी तेषां संधारणाय विसर्जितासि | अपि च मम जीवितमपि तवैव हस्ते वर्तते | तन्नि- यतं त्वयात्मा यत्नेन परिरक्षणीयः' इत्युक्त्वा सस्नेहं परिष्वज्य केयूरकं पुनस्तदवधानदानाय संविधाय 'महाश्वेताश्रमं यावत्पुनस्त्वयैव सहानया मन्नयनायागन्तव्यम्' इत्यादिश्य व्यस- र्जयत् । निर्गतायां च केयूरकेण सह पत्रलेखायाम् 'किं शीघ्रमेते यास्यन्ति न वेति, अन्तरा- १ उत्तरभागः । हटाद्वलादुपसर्पयन्ति समीप आनयन्ति । अन्यत्रान्यस्मिन्स्थले क्षणमप्यवस्थातुमवस्थानं कर्तुं न ददति न प्रयच्छन्ति । अपि चेति । अपि च प्रकारान्तरेण एते देवीप्रसादा अनुग्राहकत्वादेवानुग्रहकारित्वादेवापरि- त्याज्या अपरिमोच्याः । गुरुत्वादेव व् गरीयस्त्वादेव कृतो विहितोऽवष्टम्भ आधारो यैस्ते तथोक्ताः । विस्तीर्णत्वादेव विशालत्वादेवालङ्घनीया अनतिक्रमणीयाः | प्रभूतत्वादेव वाहुल्यादेवापरिहार्या अत्याज्याः । एतेषां द्वितीयोऽर्थः स्वयमूह्यः । तदिति हेत्वर्थे । एभिः प्रसादैरहमागमनस्याज्ञा निदेशस्तां विनापि सुदूरं दविष्ठमपक्रान्तोऽपि गतोऽपि बलाद्धठादेवाकृष्याकर्षणं कृत्वा देव्याः कादम्वर्याः पादमूलं चरणसमीपमा- नीय इति । यथेति । अनपेक्षितानीहिता गमनस्य यात्राया आज्ञा नियोगो ययैवंविधया वाण्या नियन्त्रण- त्वादहं गत इति विज्ञप्तं कथितम्, सैव वाणी विज्ञापयति विज्ञप्तिं करोति । किं तदित्याह – यथेति । तथा मे ममागमनं निष्फलं निःप्रयोजनं न भवति । जगद्वाशून्यमुसितं न स्यात् । तथा देव्या कादम्वर्यात्म संधारणाया- त्मरक्षणायात्मनैव स्वेनैव यत्नः परिश्रमः कार्यः । इति संदिश्य कथयित्वा पुनर्द्वितीयवारमाह - हे पत्र लेखे, लया- पि भवत्यापि यान्त्या व्रजन्त्याध्वनि मार्गे मम विरहो वियोगस्तस्य पीडा व्याधिर्न भावनीया न भावनाविषयी- कार्या । न विचारणी येत्यर्थः । शरीरस्य संस्कारे परिकर्मणि नानादरोऽनुद्यमः करणीयो विधातव्यः | आहार- वेला भोजनसमयो नातिक्रमणीया नोल्लङ्घनीया | अज्ञातेनानाकलितेन येनकेनचित्पथा मार्गेण न यातव्यं न गन्तव्यम् । यत्रतत्रैव यस्मिंस्तस्मिन्चा स्थलेऽतिगम्यं नानिरूप्यानवलोक्यावस्थातव्यमा सितव्यमुषितव्यं वा वसितव्यं वा । न यस्य कस्यचिद परिज्ञायमानस्यानुपलक्षितस्यान्तरमवकाशो हार्द वा दातव्यं प्रदेयम् । सर्वदा सर्वप्रकारेण शरीरे तनावप्रमादिन्यानालसिन्या भाव्यं भवितव्यम् । अहं किं करोमि किं कुर्वे । त्वत्तोऽपि भवत्या