पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । 9 वैशम्पायनागमनालापमेवानुबध्य मुहूर्त मिव संज्ञोत्सारितसमस्तपरिजनं चन्द्रापीडं व्यज्ञपयत् ---'देव, सर्वतो विस्फुरन्ती तडिदिव बलाहकोन्नाहम्, उपारूढश्यामिका मेघलेखेव सलिला- गमनम्, उपदर्शितपाण्डुच्छवि: प्राचीव चन्द्रोदयम्, परिमलग्राहिणी मलयानिलागतिरिव वसन्तमासावतारम्, समुच्छ्रसितमकरध्वजा मधुमासलक्ष्मीरिव पल्लवोद्भेदम्, उल्लसितैरागा पल्लवोद्गतिरिव कुसुमनिर्गमम्, विकसितकाशकुसुममञ्जरीव शरदारम्भम्, अवस्थैवेयमा- वेदयति नि:संशयं देवस्य गमनम् | अवश्यं च देवस्य देवीप्राप्त्या भवितव्यम् । केन कदा वावलोकितो ज्योत्स्नारहितश्चन्द्रमाः, कमलाकरो वा मृणालिकया विना उद्यानभागो वा ल ताशून्यः | अपि च न राजत एव सहकारकुसुममञ्जरीपरिग्रहमन्तरेण सर्वजनसुभगोऽपि कुसुममासः, असंभावितदानलेखालक्ष्मीकं वा वदनं यूथाधिपतेः । किंतु यावद्वैशम्पायनः परापतति, यावच्चै तेन सह गमनसंविधानं निरूपयति देवः, तावदवश्यं कालक्षेपेण भाव्यम् । यादृशी चाकालक्षमा देव्याः शरीरावस्था तादृशी निवेदितैव मया । सर्वोऽपि प्रत्याशया धार्यते । देव्यास्तु पुनर्देवदर्शनेनाद्ययावन्निष्प्रत्याशमेव हृदयं केनाश्वोसनेन वर्तताम् । मद्वा- 4. त्यायता हृदयनिर्वृतिश्चित्तसंतुष्टिर्जाता । इत्यभिदधदेवेति कथयन्नेवोपसत्योपसरणं कृत्वा पार्श्वेऽन्तिक उपवि- श्यास्थाय मुहूर्तमिव मुहूर्तमात्रं वैशम्पायनस्यागमनमर्थादभिमुखयानमालापं संलापमनुवभ्यारभ्य संज्ञयोत्सा- रितो दूरीकृतः समस्तपरिजन: समग्रसेवकजनो येनैवंभूतं चन्द्रापीडं व्यज्ञपयद्विज्ञप्तिविषयीचक्रे | देव इति । हे देव हे खामिन्, इयमवस्थैव निःसंशयं निरारेकं देवस्य भवतो गमनं यानमावेदयति कथयतीति दूरेणान्वयः | केवेत्यपेक्षायामाह– सर्वत इति । वलाहकस्य मेघस्योन्नामागमनं सर्वतोऽभितो विस्फुरन्ती देदीप्यमाना तडिदिव विद्युदिव | आवेदयतीत्यस्य सर्वत्र संबन्धः । तथासलिलस्याम्भस आगमनमुपारूढा प्राप्ता श्यामिका ययैवंविधा मेघस्य लेखा पङ्किरिव | तथा चन्द्रस्य शशिन उदयमुद्गमनमुपदर्शिता पाण्ड्डी छविः कान्तिर्ययैवंविधा प्राचीव पूर्वदिगिव । तथा वसन्तमासस्य मधुमासस्यावतारं प्रादुर्भावं परिमलमामोदं गृह्णातीत्येवंशीला मलयानि - लस्य मलयाचलवायोरागतिरिवागमनमिव | तथा पल्लवस्य किसलयस्योद्भेदमुगमनं समुच्छ्रसितो वृद्धिं प्राप्तो मकरध्वजो मदनो यस्यामेतादृशी मधुमासलक्ष्मीरिव वसन्तमासश्रीरिव तथा कुसुमस्य पुष्पस्य निर्गमं निःसरणमुल्लसित उल्लासं प्राप्तो रागो रक्तता यस्यामेतादृशी पल्लवोद्गतिरिव किसलयोद्भेद इव | तथा शरदारम्भं घनात्ययप्रारम्भं विकसिता विनिद्रिता काशकुसुममञ्जरीव | इयमवस्थैव देवस्य गमनं यानमा वेदयतीत्य- न्वयस्तु प्रागेवोक्तः । अवश्यं चेति | देवस्य स्वामिनोऽवश्यं निश्चयेन देवीप्राप्तया भवितव्यम् । अत्रार्थ उपपत्तिमाह — केनेति । केन पुरुषेण कदा वा कस्मिन्काले ज्योत्स्नारहितश्चन्द्रिका वर्जितश्चन्द्रमाः कुमुदवा- न्धवोऽवलोकितो निरीक्षितः । वाथवा मृणालिकया कमलिन्या विना कमलाकरस्तडागः | वाथवोद्यानभागो वनप्रदेशो लताशून्यो बल्लीरहितः | अपि चेति युक्त्यन्तरे । सहकारस्याप्रस्य कुसुममञ्जरी तस्याः परिग्रहमन्त- रेण स्वीकारव्यतिरेकेण सर्वजनसुभगोऽपि समग्रलोकप्रियोऽपि कुसुममासो वसन्तमासो न राजत एव न