उत्तरभागः । ४४३ वारिक्षोदक्षरिण्या लीलाकमलमालिकयैव वपुषि निहितया सखीजनहस्तपरम्परया परिक्ला- म्यति । तथा च चरणयुगलेन रसनाकलापम, नितम्ब विस्तारेण मैथ्यम्, संगमाशया हृदय- म्, हृदयेन भवन्तम्, तरसा विसिनीपलाशप्रावरणम्, कण्ठेन जीवितम्, करकमलेन कपो- लपालीम्, त्वदालापेनाश्रुपातमूंं, ललाटफलकेन चन्दनलेखिकाम्, अंसेन वेणीमधुना धारय- ति | त्वद्दिदृक्षया विघटमानं हृदयमभिवाञ्छति । गोत्रस्खेलनेनेव जीवितेन लज्जते सख्येव मूर्च्छया मनसि मुहुर्मुहुः स्पृश्यते । परिजनेनेव च रणरणकेन वदनपैरवशा कुसुम- शयनादुत्थाप्यते । परिचारिक वार्या स्रस्ताङ्गी संचार्यते । मुहुः पवनप्रेङ्खोलितमुत्कण्ठाव्य- जनपलवभङ्गभयकम्पितमिव लतामण्डपम धिवसति । मुहुः सत्कोशकलिकं बिसवलयसंरक्ष- रचिताञ्जलिपुटमिव स्थलकमेलिनीवनमधिशेते । मुहुरुद्वन्धनभयादिव निरन्तर किसलया- । मित्र- । च करस्य व्यवस्थापनम् । विरहिजनस्वभावोऽथ मिति भावः । शिशिरेति । शिशिरं शीतलं यद्वारि जलं तस्य क्षोदः पृषत्तं क्षरन्तीत्येवंशीलया वपुषि शरीरे निहितया स्थापितया सखीजनस्य हस्तपरम्परया पाणिश्रेण्या | क्षरद्वारिसाम्यादुत्प्रेक्षते – लीलायै क्रीडार्थं कमलानां पद्मानां मालिकयेव परिक्लाम्यते । ग्लानिं प्राप्नोतीलर्थः । एतेन विरहाधिक्यमाविष्कृतम् । तदेव प्रपञ्चयन्नाह -तथा चेति । अधुना सांप्रतं चरणयुगलेन पादयोर्युग्मेन रसनाकलापं कटिमेखलां धारयति धत्ते । एतेन कटिप्रदेशस्य कृशत्वमाविष्कृतम् । नितम्वेति | नितम्व आरोहस्तस्य विस्तारेण विष्कम्भेन मध्यं विलग्नम् | धारयतीत्यस्य सर्वत्रानुषङ्गः | संगमेति | संगमस्य मेलापकस्याशा वाञ्छा तथैव हृदयं स्तनान्तरम् | धारयतीत्यर्थः । तदुक्तम् – 'आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि' इति | हृदयेनेति | हृदयेन सर्व वाक्यं सावधारणमित्यु - क्तेर्भवन्तमेव त्वामेव धत्ते । नान्यमित्यर्थः । उरसेति । उरसा वक्षस्स्थलेन विसिन्या नलिन्याः पलाशानि पत्राणि तेषां प्रावरणमुत्तरीयकं धारयति । विरहजनितदाघोपशामकत्वेन तद्धारणमिति भावः । कण्ठेन निग- रणेन जीवितं प्राणितम् । एतेन कण्ठगतप्राणा सांप्रतं सा समस्तीति ध्वनितम् । करोति । करकमलेन पाणि- पद्मेन कपोलपाली गात्परप्रदेशलेखां धत्ते | विरहिजनस्वभावोक्तिरियम् | त्वदिति । तव संबन्धी य आलापस्त्वत्किंवदन्ती तेनाश्रुपातं रोदनम् | ललाटेति । ललाटफलकेन भालपट्टेन चन्दनलेखिकां मलयज- रचनाम् । एतेन तदितरालंकृतिशून्यत्वं सूचितम् | असेनेति | अंसेन स्कन्धेन वेणीं प्रवेणीम् । एतेन केशानामनियन्त्रितत्वमा विष्कृतम् | त्वदिति | तव दिदृक्षा द्रष्टुमिच्छा तथा हृदयं स्तनान्तरं विघटमानं भेदमा- पद्यमानमप्यभिवाञ्छति समीहते | हृदयविघटनेन तदन्तस्थायिनस्तव चक्षुषा दर्शनं स्यादिति भावः । गोत्रे- ति । सा कादम्बरी जीवितेन प्राणितेन लज्जते त्रपते | केनेव | गोत्रस्य नाम्नः स्खलनं विपर्यंयेण ग्रहणं तेनेव । प्रियसख्येवेति । मुहुर्मुहुर्वारंवारं मूर्च्छया मोहेन मनसि चित्ते स्पृश्यत आश्लिष्यते । कयेव । प्रियसख्येव वल्लभवयस्ययेव | परीति । रणरणकेनोत्कण्ठया मदनपरवशा पराधीना कुसुमशयनात्पुष्पशयनीयादुत्थाप्यत ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४०
दिखावट