पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ कादम्बरी । १ १ वत्सलेन देवीप्रसादेन । आजन्मक्रमाहितो वलवाञ्जननी स्नेह, वाञ्छाव्याकुलं हृदयम्, अमो- च्यं तातचरणशुश्रूषासुखम् । प्रमाथी मन्मथहतकः, हारिणी गुरुजनलालना, दुःसहान्युत्क ण्ठितानि, अनुबन्धिनी बान्धवप्रीतिः, कुतूहुलिन्यभिनवप्रार्थना, मुखावलोकिनः कुलक्रमाग- ता राजानः, जीवितफलं प्रियतमामुखावलोकनम्, अनुरक्ताः प्रजाः, गरीयान्गन्धर्वराजसुता- नुरागः, दुस्त्यजा जम्मभूमिः, परिग्राह्या देवी कादम्बरी, कालातिपातासहं मनः विप्रकृष्टम न्तरं हेमकूटविन्ध्याचलयो:, इत्येवं चिन्तयन्नेव प्रतीहार्योपदिश्यमानमार्गः पत्रलेखाकरावल - म्बी जननीसमीपमगात् । तत्रैव च तमनेकप्रकारजननीलालन सुँखा चिन्तित दुर्विषहहृदयो- त्कण्ठं दिवसमनयत् । १ १ उपनतायां चात्मचिन्तायामिवान्धका स्तिदशदिशि शर्वर्याम्, अनिवार्यविरहवेदनोन्मध्य- मानमानसाकुलेषु कलकरुण मुञ्चैव्या॑हरत्सु चक्रवाकयुगलेषु, उत्तेजितस्मँरशरं समुत्सर्पमाणेषु यैवमाज्ञापितम् । आजन्मक्रमेति । अनन्या मातुः स्नेहो बलवान्बलिष्टः । कीदृक् । आजन्मतो जन्म मर्या- दीकृत्य क्रमेण मर्यादयाहित आरोपितः । जन्ममर्यादयारोपितत्वमेवास्य विशेषः । विशेषादत्रैव स्थातुमुचितमि त्याशयः । हृदयं चेतो वाञ्छाभिरिच्छाभिर्व्याकुलम् | तातस्य पितुश्चरणौ पादौ तयोः शुश्रूषा सपर्या तस्याः सुखममोच्यं न मोक्तुं योग्यम् | मन्मथहतकः कंदर्पहतकः प्रमश्नातीत्येवंशीलः प्रमाथी | चित्तोद्वेगकृदित्यर्थः । गुरुजनस्य मात्रादेर्लालना प्रतिपालना हारिणी मनोहरा | दुःसहानि सोढुमशक्यान्युत्कण्ठितान्युत्कण्ठाविषयी- भूतानि | बान्धवानां स्वजनानां प्रीतिः स्नेहोऽनुवघ्नातीत्येवंशीलानुबन्धिनी | गमनविनकारिणीत्यर्थः । अभिन नवस्यादृष्टपूर्वस्य वस्तुनः प्रार्थना वाञ्छा कुतूहलिन्याश्चर्यकारिणी | कुलक्रमेण पट्टपरम्परया आगताः प्राप्ता राजानो भूभुजो मुखमाननमवलोकयन्तीयेवंशीला मुखावलोकिनो वक्रवीक्षकाः । प्रियतमाः स्त्रियस्तासां मु खावलोकनं वक्रवीक्षणं जीवितस्य प्राणितस्य फलं साध्यम् । प्रजा जनपदवासिनो जना अनुरक्ता अनुरागिणः | गन्धर्वराजसुता कादम्बरी तस्यां तस्या वानुरागः स्नेहो गरीयानतिशयेन गुरुः | दुरुत्यजा दुःखेन मोक्तुं शक्या जन्मभूमिर्जन्मनः खोत्पत्तेर्भूमिः स्थलम् । तदुक्तमन्यत्र - 'जणणी जम्मुप्पत्ती पच्छिम निद्दा सुभासियं वयणम् | मणइट्रं माणुस्सं पञ्च वि दुक्खेहिं मुञ्चन्ति ॥' जननी जन्मोत्पत्तिः पश्चिमनिद्रा सुभाषितं वचनम् | मनइष्टो मनुष्यः पञ्चापि दुःखान्मुच्यन्ते इति । कादम्बरी देवी परिग्राह्या परिणेतुं योग्या | कालस्यानेहसोऽतिपातो विलम्बस्तं न सहतीत्येवंशीलं मनः खान्तम् । तदीय मिति शेषः | हेमकूटविन्ध्याचलयोरन्तरं विचालं विप्रकृष्टं दूरम् । इत्येवं चिन्तयन्नेव विमृशन्नेव प्रतीहार्या द्वारनियुक्तयोपदिश्यमानः कथ्यमानो मार्गः पन्था यस्यैवंभूतः पत्रलेखायाः करं हस्तमवलम्वत इत्येवंशीलः स तथा जनन्या मातुः समीपमभ्यर्णमगादगमत् । तत्रैव मातुः समीपे तं दिवसं वासरमनयन्निनाय । कीदृशं दिवसम् । अनेकप्रकारं बहुविधं जनन्या मातुर्लालनसुखं तेना- -