सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोऽपि विभ्रमिताम्, विषादोऽपि विषादिताम्, विलासोऽपि विलासम् । तथाभूता च 'देवि, किमिदम्' इति विज्ञापिता मया प्रमृज्य लोहितायमानोदरे लोचने दुःखप्रकर्षेणात्मनः समुद्रन्धनायेव मृणालकोमलया वाहुलतया वेदिकाकुसुमपालिकाग्रथितकुसुम मालामवलम्ब्य समुन्नतैक भ्रूलता मृत्युमार्गमिवालोकयन्ती दीर्घमुष्णं च निश्वसितवती । तंदुःखकारणमुत्प्रे - क्षमाणया च कथनाय पुनःपुनरनुबध्यमाना मया ब्रीडया नखमुखविलिखित केतकीदलानि लिखित्वेव वक्तव्यमर्पयन्ती विवक्षास्फुरिताधरा निश्वासमधुकरानिवोपांशु संदिशन्ती क्षिति- तलनिहित निश्चलनयना सुचिरमतिष्ठत् । पुनःपुनस्थापूर्यमाणलोचनच्युतैर्मदनानलधूमधूसरां क्रमेण चं भूयो मन्मुखे निधाय दृष्टिं वाचमिव क्षालयन्ती बाप्पजलविन्दुभिः, बाष्पजलबिन्दुव्याजेन च विलक्षस्मितस्फुरितैर्द- शनांशुभि: साध्वसविस्मृतनपूर्वानभिधेयवर्णानिव प्रश्नती कथमपि व्याहाराभिमुखमात्मान- मकरोत् | अब्रवीच माम् – 'पत्रलेखे, वल्लभतया तस्मिन्स्थाने न तातो नाम्बा न महाश्वेता न मदलेखा न जीवितम्, यत्र मे भवती दर्शनात्प्रभृति प्रियासि । न जाने, केनापि कारणे- नापहस्तित सकलसखीजनं त्वयि विश्वसिति मे हृदयम् । कमपरमुपालभे । कस्य वान्यस्य । - तथा विभ्रमोऽपि चित्तपरिवृत्तिलक्षणोऽपि विभ्रमितात् । एतैनात्यन्त चिन्तास्थैर्यं सूचितम् । तथा विषाद इष्टविषयेषु प्रातिकूल्यरूपोऽपि विषादिताम् । एतेनेटेष्वनुकूलतालक्षण उत्साह एव प्रसिद्ध इति ध्वनितम् । विलासोऽपि परव्यामोहनानुकूलव्यापाररूपोऽपि विलासम् । एतेन विचित्रैव चेष्टा स्वीकृतेति व्यज्यते । तथा- भूता चेति । एवंरूपा सा कादम्बरी हे देवि, किमिदमिति मया विज्ञापिता पृष्टा सती लोहितायमानमार तमुदरं मध्यं ययोरेवंविधे लोचने प्रमृज्य प्रमार्जनं कृत्वा दुःखप्रकर्षणात्मनः स्वस्य समुद्वन्धनायेव मृणालव- कोमलया बाहुलतया कारणभूतया वेदिकाया या कुसुमपालिका तथा प्रथिता या कुसुममाला सक्तामवल- म्व्याश्रित्य समुन्नतैका भ्रूलता यया सैवंविधा मृत्युमार्गमिवालोकयन्ती पश्यन्ती दीर्घ लम्बायमानमुष्णं तप्तं च निश्वसितवती निश्वासं मुक्तवती । तस्य निश्वासमोचनस्य दुःखरय कारणं नियामकमुत्प्रेक्षमाणया ज्ञातुमि- च्छया मया कथनाय पुनःपुनरनुबध्यमाना वीडया लज्जया नखमुखेन नखराग्रेण विलिखितानि केतकीदलानि । अक्षरसाम्येनाह – लिखित्वेव वक्तव्यमभिधेयमर्पयन्ती | वक्तुमिच्छा विवक्षा तया स्फुरितावधरौ यस्याः सा | अधरकम्पमिषादुत्प्रेक्षते—- निश्वासेति । निश्वासमधुकरानुपांशु रहसि संदिशन्तीव कथयन्तीव क्षितितले निहिते स्थापिते निश्चले नयने यया सा सुचिरं चिरकालं यावदतिष्टत्स्थिता । क्रमेण परिपाढ्याभूयो मन्मुखे दृष्टिं निधाय स्थापयित्वा पुनः पुनर्वारंवारम् । अथेत्यानन्तर्ये । आपूर्यमाणे लोचने ताभ्यां च्युतैर्गलितैर्बाष्पजलबिन्दुभिमंदनानलस्य यो धूमस्तद्वदूसरां मलिनां वाचं वाचालतां क्षालयन्तीव | याप्पेति । वाष्पजलबिन्दुण्याजेन विलक्षमभिनवं यत्स्मितं तेन स्फुरितैर्दीपितैर्दशनांशुभिर्दन्तमयूखैः साध्वसेन भयेन विस्मृतानपूर्वानभिधेयवर्णान्वाच्याक्षरान्प्रश्नतीव । अत्र बाप्प बिन्दूनां वर्तुलतयाक्षरसाम्यं दशनांशूनां वित- ततया गुणसाम्येन ग्रन्थनमित्यर्थः कथ पि महता कन व्यहार मिखं भाषित free नमकरोदन्वति-