पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । ४०४ पितरं दूरादेवावतीर्य वाजिनचूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ रितभुजेन 'एोहि' इत्याहूय पित्रा गाढमुपगूढः सुचिरं परिष्वज्य तत्कालसंनिहिता माननीयानां कृतनमस्कार : करे गृहीत्वा विलासवतीभवनमनीयत राज्ञा । तथापि सर्वान्तःपुर परिवारया प्रत्युद्गम्याभिनन्दितापगमनः कृतागमनमङ्गलाचारो दिग्विजय भिरेव कथाभि: कंचित्कालं स्थित्वा शुकनासं द्रष्टुमाययौ । तत्राप्यमुनैव क्रमेण स्थित्वा निवेद्य वैशम्पायनं स्कन्धावारवर्तिनं कुशलिनमालोक्य च मनोरमामागत्य वि वतीभवन एव सर्वाः स्नानादिका : परवश इव क्रिया निरवर्तयत् । अपराह्ने निजमेव नमयासीत् । तत्र च रणरणकखिद्यमानमानसः कादम्बर्या विना न केवलमात्मानं स्व मवन्तीनगरं वा सकलमेव महीमण्डलं शून्यममन्यत । ततो गन्धर्वराजपुत्रीवार्ताश्रव कश्च महोत्सवमिवेप्सितवरप्राप्तिकालमिवामृतोत्पत्तिसमयमिव पत्रलेखागमनं प्रत्यपाल ततः कतिपयदिवसापगमे मेघनादः पत्रलेखामादायागच्छत् | उपानयचैनाम् । कृ स्कारां च दूरादेव स्मितेन प्रकाशितप्रीतिश्चन्द्रापीड : प्रकृतिवल्लभामपि कादम्बरीसका सादलव्धापरसौभाग्यामिव वल्लभतरतामुपागतामुत्थाया तिशयदर्शितादरमालिलिङ्ग मुखं प्रतस्थे । दृष्ट्वा च पितरं जनकं दूरादेव वाजिनोऽवादवतीर्य चूडामणिः शिरोमणिस्तस्य मरीचयः यस्ता मलति धारयतीत्येवंशीलेन मौलिना मस्तकेन महीं वसुधामगच्छत् । पञ्चाङ्गं प्रणाममकरोदित्यर्थः थेति । प्रणामानन्तरं प्रसारितभुजेन विस्तारितवाहुना पित्रा एहि एहि इत्याहूय गाढमत्यर्थमुपगूढ आ सुचिरं बहुकालं परिष्वज्यालिङ्ग्य तस्मिन्काले संनिहितानां समीपगतानां च माननीयानां पूज्यान विह्तो नमस्कारो येनैवंभूतश्चन्द्रापीड: करे गृहीत्वा विलासवतीभवनं राज्ञानीयत प्राप्यत । तथापि वत्यापि तथैव पूर्वोक्तरीत्यैव सर्वान्तःपुरस्य परिवारो यस्याः सा तथा प्रत्युद्गम्याभिमुखमागत्याभि लाघितमागमनं यस्य सः | कृतो विहित आगमनस्य मङ्गलाचारः क्रियाविशेषो यस्य सः । दिशां स्वायत्तीकरणं तत्संबद्धाभिस्तद्विपयकाभिः कथाभिर्वार्ताभिः कंचित्कालं मातुर्गृहे स्थिला शुकनासं द्रष्टुं कितुमाययावाजगाम । तत्राप्यमुनैव क्रमेण पूर्वोक्तन्यायेन सुचिरं बहुकालं स्थिला स्कन्धावारवर्तिनं कु वैशम्पायनं निवेद्य विज्ञाप्यालोक्य निरीक्ष्य च मनोरमां वैशम्पायनजननीमागत्य विलासवतीभव सर्वाः समग्राः स्नानादिकाः क्रियाः परवश इव परायत्त इव निरवर्तयन्निवर्तितवान् | अपराह्ने मध्याह निजमात्मीय मेव भवनं कुमारोऽयासीदगात् । तत्र च रणरणकेनोत्कण्ठया खिद्यमानं पीड्यमानं यस्यैवविधः कादम्वर्या विना केवलमात्मानं स्वभवनं स्वगृहमवन्तीनगरं सकलमेव मही शून्यममन्यतागण्यत । ततस्तदनन्तरं गन्धर्वराजपुत्र्या या बार्ता किंवदन्ती तस्याः श्रवणमाकर्णनं तत्र उत्कण्ठितश्च महोत्सव मित्रोत्सव मि वेप्सितोऽभिलषितो यो वरस्तस्य प्राप्तिकालो लब्धिसमयस्तमिवा