सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वमागः । ४०३ अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय | तमालिकां द्रष्टुमाचकाङ्क्ष । केयूरकागमनमुत्यैक्षत | हिमगृहकमपश्यत् | उष्णमायतं पुनरुक्तं निशश्वास | बबन्ध बान्ध- वेभ्यश्चाधिकां प्रीतिं शेषहारे । पञ्चात्स्थितां पुण्यभागिनीममन्यत पत्रलेखाम् । एवं चानुप- जातनिद्र एव तामनयन्निशाम् । उपसि चोत्थाय तस्य जरद्रविडधार्मिकस्येच्छया निसृष्टैर्ध- नविसरै: पूरयित्वा मैनोरथमभिमतमभिरमणीयेषु प्रदेशेषु निवसन्नरुपैरेवाहोभिरुज्जयिनीमा- जगाम । आकस्मिकागमनप्रहृष्टसंभ्रान्तानां पौराणामर्घकमलानीव नमस्काराञ्जलिसहस्राणि प्रतीच्छन्नतर्कित एव विवेश नगरीम् | अहमहमिकया च प्रधावितानतिरभसहर्षविह्वलान्परि- जनान् 'द्वारि देव, चन्द्रापीडो वर्तते' इत्युपलभ्यास्य पिता निर्भरानन्दमन्दगमनो मन्दर इव क्षीरोदजलमुत्तरीयांशुक ममलमागलितमाकर्षन्प्रहर्षनेत्रजलबिन्दुवर्षी मुक्तमुक्ताफलासार इव कल्पपादपः प्रत्यासन्नवर्तिभिर्जरापाण्डु मौलिभिश्चन्दन विलेपनैरनुपहतक्षौ मधौरिभिः के- यूरिभिरुष्णीषिभिः किरीटिभिः शेखरिभिर्बहुकैलासामिव बहुक्षीरोदामित्र क्षितिं दर्शयद्भिः प्रतिपन्नासिवेत्रच्छत्रकेतुचामरैरनुगम्यमानो राजसहस्रैश्चरणाभ्यामेव प्रत्युजगाम | ईष्ट्वा च दर्शनमभिललाष वाञ्छ्यामास । कीदृशम् । जीवितस्य फलमिव फलम् | अपगतेति । अपगतो दूरीभूतो योऽभिमानो गर्वस्तेन पेशलाय हृयाय | 'पेशलं हृवं सुन्दरम्' इति कोशः । मदेति । मदलेखया सह यः परि- चयः संस्तवस्तस्मै नितरां अस्पृह्यत्स्टृहां चकार | तमालिकां द्रष्टुं विलोकयितुमाचकाङ्क्षाभिललाप । केयूरक- स्यागमनमुत्प्रैतोयत | हिमगृहकमपश्यत् | उष्णमुष्णमायतं विस्तीर्ण पुनरुक्तं वारंवारं निशश्वास निश्वासा- न्मुमोच । वान्धवेभ्यः स्वजनेभ्योऽधिकां प्रीतिं शेषाभिधाने हारे वबन्ध बन्धितवान् | तदर्पितत्वेन तदुपरिरा- गाधिक्यमिति भावः । पञ्चादिति । पश्चास्थितां पुण्यभागिनीं पत्रलेखाममन्यत ज्ञातवान् । एवं चेति । एवममुना प्रकारेण अनुपजातानागता निद्रा प्रमीला यस्यैवंभूत एव निशां रात्रिमनयत्प्रापितवान् । उपसि च प्रभात उत्थाय तस्य पूर्वव्यावर्णितस्वरूपस्य जरद् द्रविड धार्मिकस्थेच्छया निसृष्टैर्दत्तैर्वन विसरैर्द्रव्य समूहै - नोरथमभिलाएं पूरयित्वाभिरमणीयेषु प्रदेशेषु निवसन्निवासं कुर्वन्नल्पैरहोभिरेव स्लोकैरेव दिनैरुज्जयिनीं वि शालामाजगामाययौ । आकस्मिकेति । आकस्मिकम संभावितं यदागमनं तेन प्रहृष्टाः प्रमुदिताः संभ्रान्ताश्च ये पौरास्तेषामर्धकमलानीव नमस्काराञ्जलिसहस्राणि प्रतीच्छन्गृहन्नतर्कित एवासंभावित एव नगरीमुज्जयिनीं विवेश प्रवेशं चकार । अहं पूर्वमहं पूर्वमित्यहमहमिका तथा प्रधावितानुञ्चलितानतिरभसेन जनितो यो हर्षः प्रमोदस्तेन बिह्वलान्व्याकुलान्परिजनान्परिच्छदान्द्वारि द्वारदेशे हे देव, चन्द्रापीडो वर्तते इत्युपलभ्य प्राप्यारय चन्द्रापीडस्य पिता तारापीडो निर्भरानन्देन निबिउप्रमोदेन मन्दं गमनं यस्यैवंभूतोऽमलं निर्मलमागलितमी- पत्स्वस्थानाद्भ्रष्टमुत्तरीयांशुकमुपसंव्यानवस्त्रमाकर्षयन्स्वस्थानं नयन् | राज्ञो गौरत्वसांम्यादुत्तरीयांशुकस्य शुभ्रत्व- साम्यादाह - मन्दरेति । मन्दर इव मेरुरिव क्षीरोदजलम् । प्रहर्षेति । प्रहर्पात्प्रमोदान्नेत्रजलविन्दू वर्ष- तीत्येवंशीलः स तथा । जलबिन्दूनां शुचित्वे मुक्ताफलसाम्यमाह – मुक्तेति । मुक्तो क्ताफलानामासारो