पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी। सुभाषितं हारि विशत्यधो गलान्न दुर्जनस्यार्करिपोरिवामृतम् । तदेव धत्ते हृदयेन सज्जनो हरिमहारत्नमिवाति निर्मलम् ॥ ७ ॥ स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम् । रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा बधूरिव ॥ ८॥ हरन्ति कं नोज्वलदीपकोपमैर्नवैः पदार्थैरुपपादिताः कथाः । निरन्तरलेषधनाः सुजातयो महान्सजश्चम्पककुमलैरिव ॥ ९ ॥ बभूव वात्स्यायनवंशसंभवो द्विजो जगद्गीतगुणोऽग्रणीः सताम् । अनेकगुप्ताचितपादपङ्कजः कुवरनामांश इव स्वयंभुवः ॥ १० ॥ सुभाषितमिति । सुभापितं सुकाव्यादि हारि मनोहायपि दुर्जनस्य खलस्य गलात् कण्ठान्निगरणा- दधो न विशति न गच्छति । हृदयशून्यखादिति भावः । कस्येव । अर्करिपोः पीयमानममृतं यथा न हृदयं विशति पूर्वोक्तहेतोरेव । तदेव सुभापिनं सजनों गुणग्राहको हृदयेन खान्तेन धत्ते धारयति । सहदयखान कदाचिद्विम्मरतीति भावः । यथा हरिः विष्णुनारायणो हृदयेन वक्षःस्थलेनातिनिर्मलं ख महारत्नं कौस्तुभं दधाति ॥ ७ ॥ स्फुरदिति । अभिनवा कथा गद्यपद्यमयी रसेन कारादिना कृत्वा जनन्य सहृदयजनस्य हृद्यन्तःकरणे कौतुकं कुतूहलमधिकं अस्मिरतत्कौतुकाधिकम् । कौतुकपूर्णमित्यर्थः । तादृशं रागं प्रीति करोति जन- यति । किंभूता । स्फुरदिति । स्फुरचञ्चत्कलो मधुगे य आलापः शब्दरचना तस्य विलासो माधुर्यं तेन कोमला मृद्वी । अन्यत्रापि कथायामालापादिकं भवत्येवेति ध्वनिः । पुनः किंविशिष्टा । शय्यामभ्युपागता प्राप्ता । 'शय्या तल्पे शब्दगुम्फे' इत्यने कार्थः । यथाभिनवा नबोढा वधू रसेन प्रेम्णा स्वयमेव अर्था- द्भर्तृजनस्य शय्यां पल्लङ्कमागता कौतुकमनुग़गं च करोति । किंभुता वधूः । स्फुरत्प्रसर्पद्यः कलो मन्द्र शालापविलासो वचनव्यापारस्तेन कोमला सुन्दरा । 'कोगलं मृदु सुन्दरे' इति विश्वः ॥ ८ ॥ हरन्तीति । नवैः स्वबुद्ध्यैव रचितैः पदाथैः पदानां शब्दानामथैरभिधेयैः उपपादिता निर्मिता रचिताः कथा गद्यपद्यादिप्रवन्धाः कं सहृदयं जनं न हरन्ति न वशीकुर्वन्ति । सर्वस्यापि मनोहारिण्यो भवन्तीति. भावः । कीदृशैः पदाथैः । उज्ज्वलदीपकोपमैरुजबलः प्रकटो दीपकोऽलंकार विशेष उपमा च गेषु ते तथा तैः । 'शृङ्गारः शुचिरुज्वलः' इत्यमरः । कीदृश्यः कथाः । निरन्तरेति । निरन्तरमव्यवधानं प्रतिपदं वा । उपमानोपमेययोरर्थसाम्यरूपः शब्दसाम्य रूपो वा यः लेपस्तेन घना बहुलतराः । पुनः किंभूताः । मात्रा अनि म जातिरळलोनिमोणे यास । सदा 1 राम जाति स्वरूपं यासांत दव। यथ