पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्व भागः । ३८१ तवेदिकानां पुण्डरीककलिकाघटितघण्टिकानां विकसित सिन्दुवारकुसुममञ्जरीचामराणां ल- म्बितस्थूलमल्लिका मुकुलहाराणामाबद्धलविङ्गपल्लवचन्दनमालिकानां दोलायमानकुमुद्दामध्व- जानां मृणालवेत्रहस्ताभिर्गृहीतरुचिरकुसुमाभरणाभिर्मधुलक्ष्मीप्रतिकृतिभिरिव द्वारपालिका- भिरधिष्ठितानां कदली तोरणानां तलेन प्रविश्य सर्वतो निसृष्टदृष्टिदृष्टवान्कचिदुभयतटनिखात- तमाल पल्लवकृतवनलेखाः कुमुदधूलिवालुका पुलिनमालिनीश्चन्दनरसेन प्रवर्त्यमाना गृहनदिकाः क्वचिन्निचुलमञ्जरीर चितरक्तचामराणां जलार्द्रवितानकानां तलेषु सिन्दूर कुट्टिमेष्वास्तीर्यमाणा- लिरक्तपङ्कजशयनानि, क्वचिदेलारसेन सिच्यमानानि स्पर्शानुमेयरम्यभित्तीनि स्फटिकभव- नानि, क्वचिच्छिरीषपक्ष्मकृतशाद्वलानां मृणालधारागृहाणां शिखरमारोप्यमाणानां धाराकद- म्बधूलिंधूसरितानि यन्त्रमयूरकाणां कादम्बकानि, कचित्सहकाररँस सिक्तैर्जम्बू पल्लवैराच्छाद्य- मानाभ्यन्तराः पर्णशालाः, क्वचित्क्रीडितकृत्रिमकरिकलभयूथकाकुली क्रियमाणाः काञ्चनक- मलिनीकाः, क्वचिद्गन्धोदककूपेषु बद्धकाञ्चनसुधापङ्ककामपीठेषु स्थूलविसलतादण्डघटितार- भार्गो यस्य सः । इतः कदलीतोरणं विशेषयन्नाह – चन्दनेति । चन्दनपङ्केन मलयजकर्दमेन कृता वेदिका येषाम् । कलिकानाद्यघण्टिकानुकारादह– पुण्डरीकेति । पुण्डरीकाणि सिताम्भोजानि तेषां कलिकाभिर्व- टिता निर्मिता घण्टिकाः किङ्किण्यो येषाम् । विकसितानि विमुद्राणि सितानि सिन्दुवारस्य निर्गुण्ड्याः कुसुमानि तेषां मञ्जरीणां चामराण्यातपत्राणि येषाम् | लम्बिताः स्थूलमल्लिका मुकुलानां हारिणो हारा येषाम् । आबद्धा लविङ्गं देवकुसुमं तस्य पल्लवा येष्वेवंविधा चन्दनमालिका तोरणार्थे मङ्गल्यं दाम येषाम् । 'तोरणार्थे तु मङ्गल्यं दाम चन्दनमालिका' इति कोशः । दोलेति । दोलायमानाः कम्पमानाः कुसुमदामध्वजा येषाम् । मृणा- लेति । मृणालानां तन्तुलानां वेत्रं हस्ते यासां ताभिंगृहीतानि स्वीकृतानि रुचिराणि मनोहराणि कुसुमा- भरणानि पुष्पविभूषणानि याभिः । मध्विति | मधुलक्ष्म्या वसन्तश्रियः प्रतिकृतिभिः प्रतिरूपाभिरे- बंविधाभिर्द्वारपालिकाभिरधिष्ठितानामाश्रितानाम् । सर्वं दृष्टवानिति पूर्वोक्तं स्पष्टीकुर्वन्नाह – क्वचिदिति । कस्मिंश्चितप्रदेश उभयतटे निखाता आरोपिता ये तमालपलवास्तापिच्छकिसलयास्तैः कृता वनलेखा कानन- वीथी यासां ताः । कुमुदानां धूलिः परागः सैव वालुका सिकतास्तस्याः पुलिनं जलोज्झितं सैकतं मालत इत्येवंशीलाश्चन्दनरसेन मलयजद्रवेण प्रवर्त्यमाना विस्तार्यमाणा गृहनदिका भवनसरितः । क्वचिदिति । नि चुलमञ्जरी हिज्जलवल्लरी तया रचितानि रक्तचामराणि येषामेतादृशानां जलाईवितानकानामम्भःक्लिन्नोलोचानां तलेषु सिन्दूरं नागजं तेन सहवर्तमानेषु कुट्टिमेष्वास्तीर्यमाणानि विस्तीर्यमाणानि रक्तपङ्कजशयनानि लोहित- कमलशयनानि । क्वचिदिति । एला चन्द्रवाला तस्या रसेन सिच्यमानानि सेचनक्रियाविषयी क्रियमाणानि स्पर्शेन करसंस्पर्शेनानुमेया अनुमातुं योग्या रम्या मनोहरा भित्तयः कुड्यानि येषामेवंविधानि स्फाटिकभवनानि । क्वचिदिति । कस्मिंश्चित्प्रदेशे शिरीषः कपीतनस्तस्य पक्ष्मभिः कोमलकेसराभिः कृतशाद्वलानां विहितदया-