पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३७९ ष्टिश्च ततःप्रभृति प्रबलया शिरोवेदनया विचेष्टमाना दारुणेन च दाहरूपिणा ज्वरेणाभिभूय- माना केनाप्याधिना मङ्गलप्रदीपैः कुमुदाकरैश्चक्रवाकैश्च सार्धमनिमीलितलोचना दुःखदु:- खेन क्षणदामनैषीत् | उपसि च मामाहूय देवस्य वार्ताव्यतिकरोपालम्भाय सोपालम्भमा- दिष्टवती' । 9 चन्द्रापीडस्तदा कर्ण्य जिगमिपु: 'अश्वोऽश्वः' इति वैदन्भवनान्निर्ययौ | आरोपितपर्याणं च त्वरिततुरगपरिचारकोपनीतमिन्द्रायुधमारुह्य पञ्चादारोप्य पत्रलेखाम् स्कन्धावारे संस्थापयित्वा वैशम्पायनम्, अशेषपरिजनं निवर्त्य च, अन्यतुरगारूढेनैव केयूरकेणानुगम्य- मानो हेमकूटं ययौ । आसाद्य च कादम्बरीभवनद्वारमवततार | अवतीर्य द्वारपालार्पित- तुरङ्गः कादम्बरीप्रथमदर्शनकुतूहलिन्या च पललेखया चानुगम्यमानः प्रविश्य ‘क देवी कादम्बरी तिष्ठति' इति संमुखागतमन्यतमं वर्षधरमप्राक्षीत् | कृतप्रणामेन च तेन 'देव, मत्तमयूरेस्य क्रीडा पर्वतकस्याधस्तात्कमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्ते' इत्यावे- दिते केयूरकेणोपदिश्यमानवर्मा प्रमदवनमध्येन गत्वा किंचिदध्वानं मरकतहरितानां कद- लीवँनानां प्रभया शष्पीकृतरविकिरणं हरितायमानं दिवसं ददर्श | तेषां च मध्ये निरन्तर - नलिनीदलच्छन्नं हिमगृहमपश्यत् । तस्माञ्च निष्पतन्तमाद्रौशुकच्छ लेनाच्छोदजलेनेव संवी- 9 यद्वमनं तत्र पनि पदानि चरणन्यासानि कृच्छ्रात्कष्टादुत्क्षिपन्त्युत्क्षेपं कुर्वन्ती शय्यागृहं शयनसभागादग- मत् । शयने तल्पे निक्षिप्ता स्थापिता गात्रयष्टिर्यया सैवंविधा च । ततः प्रभृति तद्दिनादारभ्य प्रवल्या तीव्रया शिरोवेदनया विचेष्टमाना व्याकुलीक्रियमाणा दाहरूपिणा दारुणेन तीव्रेण च ज्वरेण तापेनाभिभूयमाना पराभूय- माना केनाप्याधिना मानसीव्यथया मङ्गलप्रदीपैः कुमुदाकरैश्चक्रवाकैश्च सार्धमनिमीलितेऽमुद्रिते लोचने यस्याः सा तथा । अथ कुमुदानां रात्रौ विकासाच्चक्रवाकानां च वियोगवशाद निमीलन मिति भावः । दुःखदुःखेन । अतिदुःखेनेति भावः । क्षणदां रात्रिमनैषीदयापयद्गमयामास । उपसि च प्रभाते मामाहूयाह्वानं कृत्वा देवस्य वार्ताव्यतिकरेण भवद्वृत्तान्तसमूहेन हेतुभूतेन उपालम्भाय सोपालम्भं यथा स्यात्तथादिष्टवती कथितवती । चन्द्रापीडस्तदाकर्ण्य श्रुत्वा जिग मिपुर्गन्तुमिच्छुरश्वोऽश्व इति वदन्ब्रुवन्भवनाद्गृहान्निर्थयौ निर्जगाम | आरो- पितं स्थापितं पर्याणं पल्ययनं यस्मिन्नेतादृशं त्वरितं शीघ्रं तुरगपरिचारकेणोपनीत मानीतमिन्द्रायुधमारुह्यारोहणं कृत्वा पत्रलेखां पश्चात्पृष्टभाग आरोग्य स्थापयित्वा स्कन्धावारे सैन्यवेशे वैशम्पायनं संस्थापयित्वाशेषपरिज- नं समग्रपरिच्छदं निवर्स पश्चाद्वयाघुट्यान्यतुरगारूढेनैव केयूरकेणानुगम्यमानो हेमकूटं ययौ । कादम्बरी - भवनद्वारमासाद्य प्राण्यावततारोत्तीर्णवांश्च । अश्वादिति शेपः । अवतीर्य च द्वारपालस्यार्पितस्तुरङ्गो येन स तथा कादम्वर्या यत्प्रथमदर्शनं तत्र कुतूहलं विद्यते यस्या एवंविधया पत्रलेखयानुगम्यमानः प्रविश्य क्व देवी कादम्बरी तिष्ठतीति संमुखागत मन्यतमं वर्षधरं कजु किनमप्राक्षीत्पप्रच्छ| तेन कृतप्रणामेन चेत्या वेदिते कथिते सति । इति - aaimar वेति हेक