पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ कादम्बरी । १ 9 तीर्य क्षणमिवावस्थानमण्डपे स्थित्वोत्थाय स्खलनभियेव निवेद्यमानोपहारकुसुमाशब्दायमानै- मधुकरैः, जलधाराघवलनखमयूखोन्मुखोनामनुगलं गलद्भिर्वलयैः कण्ठबन्धानिवोपपाद- यन्ती केकारवोद्विना अवनशिखण्डिनाम्, पढ़े पदे च कुसुमधवलान्करेण लैतापल्लवान्मनसा च देवस्य गुणगणानवलम्भमाना तमेव क्रीडापर्वतकमागतवती यत्र स्थितवान्देवः । तमुपेत्य च 'देवेनात्र मरकतशिलामकरिकाप्रणालप्रस्रवणसिच्यमानलतामण्डपे सीकरिणि शिलातले स्थितम् अत्र गन्धोदकपरिमललीनालिजालजटिलशिलाप्रदेशे स्नातम्, अत्र कुसुमधूलिसि- कॅतिले गिरिनदिकातटे भगवानर्चितः शूलपाणिः, अत्र हेपितशशधररोचिषि स्फटिकशि - लातले सुक्तम्, अत्र संक्रान्त चन्दनरसलाञ्छने मुक्ताशैलशिलापट्टे सुप्तम्' इति परिजनेन पुनरुक्तं निवेद्यमानानि देवस्यैव स्थानचिह्नानि पश्यन्ती क्षपितवती दिवसम् | दिवसाव- साने च कथमपि महाश्वेताप्रयत्नादनभिमतमपि तस्मिन्नेव स्फटिकमणिशिला वेश्मन्याहारम- करोत् । अस्तमुपगते च भगवति रवावुदिते चन्द्रमसि तत्रैव कंचित्कालं स्थित्वा चन्द्रका- न्तमयीव चन्द्रोदये प्रत्याकृततनुश्चन्द्र विम्वप्रवेश भयेनेव करौ कपोलयोः कृत्वा किमपि चिन्तयन्ती गुकुलितेक्षणा क्षणमात्रं स्थित्वोत्थाय विमलनखविपतितशशिप्रतिमाभरगुरूणीव : कुच्छ्रादुत्क्षिपन्ती लीलामन्थरगमनपटूनि पदानि शय्यागृहमगात् । शयननिक्षिप्तगात्रय- कृत्वा क्षणमिवावस्थानमण्डपे स्थित्वोत्थाय स्खलनभियेव पतनभयेनेवोपहारस्य कुसुमानि तेष्वासमन्ताच्छ- व्दायमानैः शब्दं कुर्वाणैर्मधुकरैर्भ्रमरैर्निवेद्यमानेव विज्ञप्तिविषयीक्रियमाणेव । जलधारावद्धवानां शुभ्राणां न खमयूखानां पुनर्भवकान्तीनामुन्मुखानां संमुखानामनुगलं निगरणमनुलक्षीकृत्य गलद्भिः पतद्भिर्वलयैः कटकैः करणभूतैर्भवनशिखण्डिना गृहमयूराणां केकारवेणोद्विग्नोगं प्राप्ता सती कण्ठवन्धानुपपादयन्तीव रचयन्तीव । करेण हस्तेन पदे पदे च कुसुमधवलान्पुष्पवच्छुभ्रांतापल्लवान्वल्ली किसलयानि मनसा च देवस्य भवतो गुण- गणान्गुणसमूहानवलम्वमानावलम्बनं कुर्वाणा तमेव पूर्वोक्तमेव क्रीडापर्वतकभागतवती । यत्रेति । यस्मिन्स्थ ले देवो भवान्पूर्व स्थितवान् । तं क्रीडाचलमुपेत्यागत्य च । अत्र सीकरा विद्यन्ते यस्मिन्नेवंविधे शिलातले दे- वेन स्थितमासितम् । कीदृशे | मरकतस्य शिला तस्या मकरिका प्रणालो मकरमुखो जलमार्गस्तस्य प्रत्रचणेन सिच्यमानो लतामण्डपो यस्य तत्तस्मिन् | अत्रेति । अस्मिन्गन्धोदकस्य सुगन्धजलस्य यः परिमलस्तेन लीना लग्ना येऽलयो भ्रमरास्तैर्जटिलो व्याप्तः शिलाप्रदेशस्तस्मिन्नातं कृताप्लवम् । अत्रेति । अस्मिन्कुसुमा- नां धूल्या परागेण सिकतिले सिकतायुक्ते गिरिनदिकातदे भगवाञ्शूलपाणिरचितः पूजितः । अत्रेति । अ- स्मिन्हेपिता लजिता शशवरस्य रोचिर्येन तस्मिन्स्फटिकशिलातले भुक्तम् । अत्रेति । अस्मिन्संक्रान्तः प्रतिविम्वितो यश्चन्दनरसः स एव लाञ्छनं चिह्नं यस्मिन्नेवविधे मुक्ताशैलशिलापट्टे सुप्तमिति परिजनेन पार्श्व- वर्तिसेवकलोकेन देवस्य भवत एव स्थानचिह्नानि । पुनरुक्तं पृथक्पृथ निवेदनादिति भावः । निवेद्यमानानि