पूर्वभागः । अथ कादम्बरी 'सखि, महाश्वेते, स्वाधीनोऽयं सपरिजनो जनः कुमारस्य स्व इवान्तरा- त्मा । क इवात्रानुरोधः' इत्यभिधाय गन्धर्वकुमारानाहूय 'प्रापयत कुमारं स्वां भूमिम्' इत्या- दिदेश | चन्द्रापीडोऽप्युत्थाय प्रणम्य प्रथमं महाश्वेतां ततः कादम्बरीं तस्याश्च प्रेमस्निग्धेन चक्षुषा मनसा च गृह्यमाण: 'देवि, किं ब्रवीमि | बहुभाषिणे न श्रद्दधाति लोकः । स्मर्तव्यो- ऽस्मि परिजनकथासु' इत्यभिधाय कन्यकान्तःपुरान्निर्जगाम | कादम्बरीवैर्जोऽशेषः कन्यका- जनो गुणगौरवाकृष्टः परवश इव तं व्रजन्तमा बहिस्तोरणादनुवब्राज | निवृत्ते च कन्यका - जने केयूरकेणोपनीतं वाजिन मारुह्य गन्धर्वकुमारकैस्तैरनुगम्यमानो हेमकूटात्प्रवृत्तो गन्तुम् । गच्छतश्चास्य चित्ररथतनया न केवलमन्तर्बहिरपि सैव सर्वाशानिबन्धनमासीत् । तथा हि । तन्मयेन मानसेनासह्य विरहदु:खानुशयलग्नामिव पृष्ठतः, कृतमार्गगमननिरोधामिव पुरस्तात् वियोगाकुलहृदयोत्कलिका वेशाक्षिप्तामिव नभसि सम्यगालोकयितुं वदनम्, विरहातुरमान- सामिवावस्थितामुरःस्थले, तौमेव ददर्श | क्रमेण च प्राप्य महाश्वेताश्रममच्छोदसरस्तीरे संनिविष्टमिन्द्रायुधखुरपुटानुसारेणैवागतमात्मस्कन्धावारमपश्यत् | निवर्तिताशेषगन्धर्वकुमा- रश्च सानन्देन सकुतूहलेन सविस्मयेन च स्कन्धावारवर्तिना जनेन प्रणम्यमानः स्वभवनं अथेति । एतच्छ्रवणानन्तरं कादम्बरी गन्धर्वकुमारानाहूयाह्वानं कृत्वेत्यादिदेशेत्यादिष्टवती । इतिशब्द- वाच्यमाह — कुमारेति । कुमारं चन्द्रापीडं स्वां भूमिं प्रापयत आपयत यूयम् । किं कृत्वा । इत्यभिधायेत्यु- क्ला | इतिशब्दार्थमाह - हे सखि महाश्वेते, अयं मल्लक्षणः सपरिवारो जनः कुमारस्य स्वान्तरात्मेव स्वाधी- नः स्ववशः । अतः कोऽत्रानुरोधः संकोचः । चन्द्रापीडोऽप्युत्थायोत्थानं कृत्वा प्रथममादौ महाश्वेतां प्रणम्य नमस्कृत्य ततस्तदनन्तरं कादम्बरी प्रणम्य नमस्कृत्य तस्याः कादम्बर्याः प्रेमस्निग्धेन स्नेहचिकणेन चक्षुषा नेत्रेण मनसा च गृह्यमाण इत्यभिधायोक्त्वा कन्यकान्तः पुरान्निर्जगाम निर्गतो बभूव । इतिशब्दार्थमाह - देवीति । हे देवि कादम्बरि, किं ब्रवीमि किं कथयामि । 'ब्रुवते हि फलेन साधवो न शब्देन ' इति न्या- यात् । अत्र हेतुमाह — यतो बहुभाषिणे वाचालाय लोको जनो न श्रद्दधाति न श्रद्दधते । अत उपसंहरति- परीति | परिजनकथासु निजसेवकवार्तासु स्मर्तव्यः स्मरणीयोऽस्मि | अहमिति शेषः । तदनन्तरं कादम्ब - रीवर्जोऽशेषः समग्रः कन्यकाजनो गुणगौरवेणाकृष्ट आकर्षितः परवश इव परायत्त इव तं चन्द्रापीडं व्रजन्तं गच्छन्तमा बहिस्तोरणाहिरं मर्यादी कृत्यानुवब्राज पृष्ठतो जगाम । तदनन्तरं निवृत्ते च पश्चाद्वलिते च क न्यकाजने केयूरकेणोपनीतमानीतं वाजिनमारुह्यारोहणं कृत्वा तैः पूर्वोत्तैर्गन्धर्वकुमारकैरनुगम्यमानो हेम- कूटाद्गन्तुं प्रवृत्तः । गच्छतो व्रजतोऽस्य चन्द्रापीडस्य चित्ररथतनया कादम्बरी न केवलमन्तर्वहिरपि सैव का - दम्बरी सर्वाशानिबन्धनं समग्राभिलाषाणां कारणमासीद्वभूव । एतदेव दर्शयति — तथा हीति । तन्मयेन कादम्बरीमयेन मानसेन चित्तेन कृत्वासह्यं न सोढुं शक्यं यद्विरहदुःखं तस्यानुशयः संतापस्तेन पृष्ठतो लग्नामिव, पुरस्ताद कृतो मार्गगमनस्य निरोधो यया सैवंविधामिव, वियोगेन विरहेणाकुलं यद्धृदयं चित्तं तस्मिन्नुत्क
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७१
दिखावट