सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ कादम्बरी । कासु कमलधूलिवालुकाभिर्वाल पुलिनानि कारयन्तीम्, 'परिजननूपुररवप्रेस्थितं दुर्लभं च हंस- मिथुनं मृणालनिगडकेन बद्धान' इति हंसपालीमा दिशन्तीम्, आभरणमरकत मयूखांहिते है- रिणशावकाय सखी श्रवणादपनीय यवाङ्करप्रसवं प्रयच्छन्तीम्, आत्मवैधितलताकुसुमनिर्गम- निवेदनागता मुद्यानपालीमशेपाभरणदानेन संमानयन्तीम् उपनीत विविधवनकुसुमफलपूर्ण- पत्रपुटाम विज्ञायमानालापतया हासहेतुं पुनःपुनः क्रीडापर्वतपत्रशबरीमालपन्तीम्, करतल- विनिहितैर्मुहुर्मुहुरुत्पतद्भिश्च मुखपरिमलान्धैर्नीलक श्चुकैरिव मधुकरैः क्रीडन्तीम्, पश्चरहरी- तकरुतश्रवणकृतदुष्टस्मितां चामरग्राहिणीं विहस्य लीलाकमलेन शिरसि विघट्टयन्तीम्, मु क्ताफलखचितन्द्रलेखिका संक्रान्तप्रतिमां स्वेदजलबिन्दुजालेचितनखपदाभिप्रायेण ताम्बूल- करङ्कबाहिनीं पैथोधरे पटवासमुष्टिना ताडयन्तीम् रत्नकुण्डले प्रतिबिम्ब सान्द्रदत्तनवनख- पदमण्डलाशङ्कया चामरग्राहिणीं विहस्य कपोले प्रसादव्यजेन दत्तेनात्मकर्णपूरपडवेनाच्छा- , , स्ता एव वालुकाः सिकतास्ताभिर्वाल पुलिनानि स्वसैकतानि कारयन्तीम् । अत्र पूर्वोक्तपु वक्ष्यमाणेषु वा यत्र यत्र द्रव्यगुणक्रियाभिः प्रस्तुतप्रशंसा तत्र सर्वत्र यथोचितं तत्तदतिशया एव व्यङ्ग्याः स्वयं वोद्धव्याः । यथा निजरूपतः प्रतिविम्यै रित्यत्र रूपातिशयः । यथा वा रजनीत्यत्र कमलातिशयः पुलिनक्रियातिशयश्च । परि- जनेति । परिजनः परिच्छदलोकस्तस्य नूपुराणि पादकटकानि तेषां रवः शब्दस्तेन प्रस्थितं चलितं दुर्लभं दुष्प्रापं च हंसमिथुनं चक्रानयुग्मं मृणालं तन्तुलं तदेव निगडकमन्दुकस्तेन बवा नियम्यानय मत्समीपं प्रापय । इति हंसपाली हंसरक्षानियुक्तामादिशन्ती कथयन्तीं । पुनः किं कुर्वन्तीम् | आभरणानां भूषणानां मरकतान्य- इमगर्भाणि तेषां मयूखान्किरणांछिहत आस्वादयते हरिणशावकाय मृगशिशवे सखी श्रवणाद्वयस्याकर्णाद्यवाङ्कुर- प्रसवं हय प्रियोद्गम पुष्पमपनीय दूरीकृत्य प्रयच्छन्तीं ददतीम् | आत्मेति । आत्मवर्धिता स्वयं वृद्धिं प्रापिता या लता वही तस्यां कुसुम निर्गमः पुष्पप्रादुर्भावस्तस्य निवेदनाय कथनायागतां प्राप्तामुद्यानपालीं वनरक्षानियुक्ताम- शेषाभरणदानेन समग्रभूषणप्रदानेन संमानयन्तीं संमानं कुर्वन्तीम् । उपेति । उपनीतान्यानीतानि विविधा - न्यनेकप्रकाराणि वनकुसुमफलानि तैः पूर्ण भृतं पत्रपुढं यया सा ताम् | अविज्ञायमानो य आलापः संलाप स्तस्य भावतत्ता तथा हास हेतुं परिहासनिमित्तं पुनःपुनर्भूयोभूयः क्रीडापर्वतस्य पत्रशवरीं पुलिन्दपत्नीम् । 'पलिन्दः पत्रशवरः' इति रत्नकोशः । आलपन्तीं जल्पन्तीम् । करोति । करतले हस्ततले विनिहितैः स्थापितर्मुहुर्मुहुर्वारंवारमुत्पतद्भिरुत्पतनं कुर्वद्भिर्मुखस्य यः परिमलस्तेनान्धैः । नीलखसाम्यादाह-नीलेति । नीलकरिव मधुकरैमरैः क्रीडन्ती क्रीडां कुर्वन्तीम् । पअरेति । पजरे वंशदलनिर्मिते पात्रे यो हारी. तको मृदङ्करस्तस्य रुतश्रवणेन कृतं दुष्टं गूढं स्मितं यया सा ताम् । एवंविधां चामरग्राहिणी विहस्य शिरसि मस्तके लीलाकमलेन विघट्टयन्तीं ताडयन्तीम् । मुक्तेति । मुक्ताफलानि रसोद्भवानि तैः खचिता या चन्द्र- लेखिका चन्द्रलेखाकृतिराभरणविशेषस्तस्याः संक्रान्ता प्रतिविम्विता प्रतिमा यस्यां सैवंविधां ताम्बूलकरङ्कवा- हिनी स्वेदजलविन्दुजालेन चितं व्याप्तं यन्नखपदं तस्याभिप्रायेण पयोधरे कुचे पटवासः पिष्टातस्तस्य मुष्टिना ता.