सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३४१ कं कर्तुमुद्यताम्, उन्मदयौवनकुञ्जरमदराजिभ्यां भूलताभ्यां मनःशिलापङ्कलिखितेन च रोगा- विष्टेन मन्मथहृदयेनेव वदनलग्नेन तिलकविन्दुना विद्योतितललाटपट्टाम्, उत्कृष्टहेमतालीप- ट्टाभरणमयमामुक्तकर्णोत्पलच्युतमधुधारा संदेहकारिणं कर्णपाशंदोलायमानपत्रमरकतमाणि- क्यकुण्डलं दधतीम्, पाटलीकृतललाटेन सीमन्तचुम्बिनचूडामणेः क्षरतांशुजॉलेन मदिरार- सेनेव प्रक्षाल्यमानदीर्घकेशकलापाम्, देहार्धप्रविष्टहरगर्वितगौरीविजिगीपयेव सर्वाङ्गानुप्रवि- ष्टमन्मथदर्शितसौभाग्यविशेषाम् उर:समारोपितलक्ष्मीमुदितनारायणावलेपहरणाय प्रतिवि- म्बकैनिजरूपतो लक्ष्मीशतानीव सृजन्तीम् उत्तमाङ्ग निहितैक चन्द्रविस्मितहराभिमाननाशाय विलास स्मितैश्चन्द्रसहस्राणीव दिक्षु क्षिपन्तीम्, निर्दयदग्धैकमन्मथप्रमथनाथरोषेणेव प्रतिहृदयं मन्मथायुतान्युत्पादयन्तीम्, रजनीजागर खिन्नस्य परिचित चक्रवाक मिथुनस्य स्वप्तुं क्रीडानदि- .3 .9 १ मात्मीयं यन्मुखं तस्य या लक्ष्मीः श्रीस्तस्या निवासार्थ दुग्धोदधिना क्षीरसमुद्रेणैवंविधेन लोचनयुगलेन नेत्र- युग्मेन लोचनमयमिव जीवलोकं कर्तुमुद्यताम् । कपोलावधिश्याम लेखाद्वयसाम्येनाह - उन्मदेति । उद्गतो मदो यस्मादेवंभूतं यद्यौवनं स एवानिवार्यत्वात्कुञ्जरस्तस्य मदो दानं तस्य राजी इव राजी ताभ्यां भ्रूलताभ्याम् । तथा रागोऽनुरागस्तेनाविष्टेन व्याप्तेन । अथ च राग आरुण्यम् । तिलकारुण्यमिति यावत् । एवंविधेन मन्मथहृदये- नेव कंदर्पवान्तेनेव वदनलग्नेन मनःशिलापङ्कलिखितेन तिलकबिन्दुना विद्योतितं प्रकाशितं ललाटपट्टं यस्याः सा ताम् । केचित्तु — मन्मथो हृदये यस्मात् । तिलकारुण्यं दृष्ट्वा यूनां हृदये मन्मथावेशः । एवंविधेनैवेति व्या- ख्यानयन्ति । पुनः किं कुर्वन्तीम् । दधतीं धारयन्तीम् । कर्णपाशं कर्णाभरणविशेषम् । दोलायमानं पत्रं स्वर्ण- पत्रं यस्मिन्नेतादृशं मरकतमाणिक्यनिर्मितं कुण्डलं च । आयं विशेषयन्नाह — उत्कृष्टेति । उत्कृष्टा अत्यद्भुता या हेमताली स्वर्णताली तस्याः पट्टाभरणेन निर्मितम् । तस्य च पिङ्गवर्णत्वात् । कमलमकरन्दस्याप्येवंभूतत्वात्त त्साम्येनाह – आमुक्तेति । आमुक्तं परिधानीकृतं यत्कर्णोत्पलं श्रवणकुवलयं तस्माच्युता सस्ता या मधु- धारा तस्याः संदेहकारिणमारेकाजनकम् | पाटलीति । पाटलीकृतं श्वेतरक्तीकृतं ललाटमलिकं येनैवंविधेन " सीमन्तचुम्बिनः केशवर्त्मचुम्बिनश्चूडामणेः शिरोमणेरंशुजालेन किरणसमूहेन क्षरता स्रवता | अनेकवर्णत्वसा- म्यादाह — मदिरारसेनेव प्रक्षाल्यमानो दीर्घ आयतः केशकलापोऽलकसमूहो यस्याः सा ताम् । देहेति । देहा शरीरार्धे प्रविष्टो यो हर ईश्वरस्तेन गर्विता गर्व प्राप्ता या गौरी तद्विजिगीषयेव विजेतुमिच्छयेव । सर्वाङ्गेष्वनुप्र- विष्टो हरविरोधी मन्मथस्तेन दर्शितः सौभाग्यविशेषो यस्याः सा ताम् । एतेन सर्वाज्ञानङ्ग प्रवेशेन गौर्याः सका- शादस्याः सौभाग्यातिशयो व्यज्यते । उर इति । उरःस्थले समारोपिता अवस्थापिता या लक्ष्मीस्तया मु दितो हर्ष प्राप्तो यो नारायणस्तस्य योऽवलेपोऽहुंकारो मत्सदृशः कोऽपि नास्ति, अन्येषां लक्ष्मीर्वर्तते सा बहिः- संयोगवियोगमात्रेण, परं न शरीरान्तर्गतेत्येवरूपस्तस्य हरणाय निवृत्तेर्निजरूपत आत्मीय देहस्य | सार्वविभक्ति- कस्तस् । तस्य प्रतिबिम्बकैः प्रतिच्छायैर्लक्ष्मीशतानीव सृजन्तीं कुर्वन्तीम् | उत्तमाङ्गे शिरसि निहितः स्थापितो