पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३३९ अकृतपुण्यमिव मुञ्चन्तीं बालभावम्, अदत्तामपि मन्मथावेशपरवशेनेव गृह्यमाणां यौवनेन, अविचलितचरणरागदीधितिभिरिव निर्गताभिरलक्तकर सपाटलितलावण्यजलवेणिकाभिरिव गॅलिताभिर्निवसितांशुकेदशाशिखाभिरिवावलम्बिताभिः पादाभरणरत्नांशुलेखा संदेहदायिनी - भिरतिकोमलतया नखविवरेण वैर्पन्तीभिरिव रुधिरधारावर्षमङ्गुलीभिरुपेताभ्यां क्षितितलता- रागणमिव नखमणिमण्डलमुहद्भ्यां विद्रुमरसनदीमिव चरणाभ्यां प्रवर्तयन्तीम्, नूपुरमणि- किरणचक्रवालेन गुरुनितम्बभरखिन्नोरुयुगल संहायतामिव कर्तुमुद्रच्छतास्पृश्यमानजघनभा- गाम्, प्रजापतिदृढनिष्पीडित मध्यभागगलितं जघनशिलातलप्रतिघातालावण्यस्रोत इव द्वि- धागतमूरुद्वयं दधानाम् सर्वतः प्रसारितदीर्घमयूखमण्डलेने या परपुरुषदर्शनमिव सन्धता कुतूहलेन विस्तार मिव तन्वता स्पर्शसुखेन रोमाञ्चमिव मुञ्चता काञ्चीदाना नितम्बविम्बस्य विरचितपरिवेषाम्, निपतितसकललो कहृदय भरेणेवातिगुरुनितम्बाम्, उन्नतकुचान्तरितमुख- , । भावं मुञ्चन्त त्यजन्तीम् । कमिव । अकृतपुण्यमिव निर्भाग्य मिव । अन्तामिति । अदत्तामप्यनर्पितामपि मन्मथस्य कंदर्पस्यावेश आवेगस्तस्य परवशेन पराधीनेन यौवनेन गृह्यमाणामिव स्वीक्रियमाणामिव । पुनः की- दृशीम् | चरणाभ्यां पादाभ्यां विद्रुमरसनदीमिव हेमकन्दलरसतटिनीमिव प्रवर्तयन्तीं विस्तारयन्तीम् । कीदृ- शाभ्यां चरणाभ्याम् | अङ्गुलीभिः करशाखाभिरुपेताभ्यां सहिताभ्याम् । कीदृशीभिरङ्गुलीभिः | अविचलि तेति । अविचलितो निश्चलो यश्चरणयो रागस्तस्य दीधितिभिरिव प्रभाभिरिव निर्गताभिः प्रत्युद्गताभिः । अलकेति । अलक्तकरसो यावकरसस्तेन पाटलितं श्वेतरक्तीकृतं यद्धावण्यजलं तस्य गलिताभिः क्षरिताभि• वैणिका भिरिव धाराभिरिव | वस्त्रप्रान्तावलम्बनसाम्येनाह–निवसितेति । निवसितं परिधानीकृतं यदंशुकं रत्नांशुकं तस्य दशाशिखाभिरिव वस्त्रप्रान्ता मैरिवावलम्बिताभिर्हवृताभिः | पादेति । अतिकोमलतयातिमृ- दुतया पादाभरणानां या रत्नांशुलेखा मणिकान्ति रेखाखासां संदेहदायिनीभिः संशयवितरणकत्रभिः | नख- विवरेण नखान्तरेण रुधिरधारावर्षं वर्षन्तीभिरिव । किं कुर्वयां पादाभ्याम् । क्षितितलतारागणमिव नखमणि- मण्डलमुद्रहद्भ्यामुद्वहनं कुर्वद्भ्याम् । अत्र वर्तुलवप्रकाशकत्वसाधर्म्यान्नखतारागणयोः साम्यं प्रदर्शितम् । वि द्रुमं हेमकन्दलस्तस्य यो रसस्तस्य नहीं तटिनीं चरणाम्यां पादाभ्यां प्रवर्तयन्तीमिव विस्तारयन्तीमिव | नूपुरे- ति । स्पृश्यमानः स्पर्श विषयी क्रियमाणो जघनभागो यस्याः सा ताम् । केन । नूपुरमणीनां पादकट करत्नानां किरणा दीघितयस्तेषां चक्रवालेन समूहेन गुरुर्यो नितम्ब आरोहस्तस्य भरेण भारेण सिन्नं यदूरुयुगलं स- क्थिद्वन्द्वं तस्य सहायं साहाय्यं कर्तुमिचोच्छतोर्ध्वं व्रजता । प्रजेति । प्रजापतिना ब्रह्मणा निर्माणव्याजेन दृढं निष्पीडितो मर्दितो मध्यभागो मध्यप्रदेशस्तस्माद्गलितं च्युतं लावण्यस्रोत इव जघनशिलातलप्रति- घाताद्विधागतमूरुद्वयं दधानां धारयन्तीम् । एतेन मध्यभागे कार्य शिलातलपदेन च जघने दृढत्व मगूढं व्यज्यते । पुनः कीदृशीम् । काञ्चीदाना रशनादाना नितम्बबिम्बस्यारोहमण्डलस्य विरचितो निर्मितः