सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३२१ 9 व्यमिदमवगन्तव्यं भगवत्या | चिरप्रवृत्त एष पन्थाः | तथा हि | विश्वावसुना गन्धर्वराजेन मेनकायामुत्पन्नां प्रमद्वरां नाम कन्यकामाशीविषविलुप्तजीवितां स्थूलकेशाश्रमे भार्गवस्य च्यवनस्य नप्ता प्रमतितनयो मुनिकुमारको रुरुर्नाम स्वायुषोऽर्धेन योजितवान् । अर्जुनं चा- श्वमेधतुरगानुगामिनम् आत्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृतप्राणम्, उलूपी नागकन्यका सोच्छ्छ्रासमकरोत् । अभिमन्युतनयं च परीक्षितमश्वत्थामा स्त्र पावक परिप्पुष्टम्, उदरादुपरतमेव विनिर्गतम्, उत्तराप्रलापोपजनितकृपो सँगवान्वासुदेवो दुर्लभानसून्प्रापि- तवान् | उज्जयिन्यां च संदीपनि द्विजतनयमन्तकर्पुरादपहृत्य त्रिभुवनवन्दितचरणः स एवा- नीतवान् । अँत्रापि कथंचिदेवमेव भविष्यति । तथापि किं क्रियते, किंवा लभ्यते । प्रभ- वति हि भगवान्विधिः । बलवती च नियतिः । आत्मेच्छया न शक्यमुच्छ्रसितमपि । अति- पिशुनानि चास्यैकान्तनिष्ठुरस्य दैवहतकस्य विलासितानि । न क्षमते दीर्घकालमव्याजरम- णीयं प्रेम | प्रायेण च निसर्गत एवानायतस्वभावभङ्गुराणि सुखानि, आयतस्वभावानि च तमाशयत आशङ्काविषयीक्रियते । न च सर्वथा मृतस्य पुनर्जीवनं क्वापि दृष्टमित्यत आह -नचेति । भगवत्या त्वयेदं प्रत्युज्जीवनमसंभाव्यमघटमानमिति न चावगन्तव्यं न ज्ञातव्यम् । अस्य प्राचीनत्वं प्रदर्शयन्ना--- चिरमिति | एप प्रत्युज्जीवनलक्षणः पन्था मार्गश्चिरप्रवृत्तो यहुकालीनः । तदेव दर्शयति - तथा हीति | विश्वावसुनाम्ना गन्धर्वराजेन करणभूतेन मेनकाया मुत्पन्नां प्रादुर्भूतां प्रमद्वरेति नाम्नीं कन्यकामाशीविषेण सर्पेण विलुप्तं ध्वस्तं जीवितं श्वसितं यस्या एवंविधां स्थूलकेशमुनेराश्रमे मठे भार्गवस्य भृगुवंशोत्पन्नस्य व्यवननाम्नो मुनेर्नप्ता प्रपौत्रः प्रमतेस्तनयः पुत्रो मुनिकुमारको रुरुः स्वायुषः स्वजीवितस्यार्धेन योजितवान्संवन्धितवान् । अर्जुनं चेति । अश्वमेधस्य यस्तुरगोऽश्वस्तदनुगामिनं तत्पृष्ठयायिनं वभ्रुवाहननाम्रात्मजेन सुतेन समरशिरसि सङ्ग्रामशिरसि शरेण वाणेनापहृता आकर्षिताः प्राणा यस्यैवंविधमर्जुनं पार्थम् । नामेति कोमलामन्त्रणे | उलू- पीनाम्नी नागकन्यका सोच्छ्वासं सजीवितमकरोदसृजत् । अभीति | अश्वत्थाम्नो द्रोणाचार्यसुतस्य योऽस्त्रपा- वकः शस्त्राग्निस्तेन परिष्लष्टं दग्धम् | उदरेति । उदराद्गर्भाशयादुपरतमेव मृतमेव विनिर्गतं निःसृतम् | ईदृशभभि मन्युतनयमर्जुन पौत्रं परीक्षिताभिधानमुत्तरायाः प्रलापेन विलापेनोपजनितोत्पादिता कृपा करुणा यस्यैवंविधो- भगवान्वासुदेवो नारायणो दुर्लभान्दुष्प्रापानसून्प्राणान्प्रापितवान्प्रदत्तवान् | उज्जयिन्यां चेति । उज्जयिन्य विशालायां संदीप निनाम्नो द्विजस्य तनयं सुतमन्तकपुरात्संयमन्या अपहृयापहरणं कृत्वा त्रिभुवनेन वन्दि नमस्कृतौ चरणौ यस्यैवंभूतः स एव भगवान्वासुदेव आनीतवानानयनं कृतवान् । अत्रापीति | कथंचि 5. मारैल- रेणैवमेव पुनर्जीवनवजीवनं भविष्यति । अनेनोत्कटकोटि प्रदर्शिता | संभावनारूपत्वात् । अनुत्कट वे आ- तिकार्यत्वं स्वस्याह - तथापीति | अपि अनास्थायाम् । तथापि तव शोकमात्रेण किंव सीञ्चेति । थवा लभ्यते प्राप्यते । तत्र हेतुमाह - प्रभवतीति । भगवान्विधिः प्रभवति समर्थो भवति व्यर्थः अदृष्टविशेषो ब्रह्मलिखितपद्धतिर्वा वीर्यवती । उपसंहरति--आत्मेच्छेति युधः कंदर्पः भीषण दु my af= al M