पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अलिकुलनील कुटिलकुन्तलनिकर विकेटमौलिः, उत्फुल्लकुमुदकर्णपूर: कामिनीकुच- चलतालान्छितांसदेशः, कुमुदधवलदेहः महाप्रमाणः पुरुषः, महापुरुषलक्षणोपेतः, ति:, स्वच्छवारिधवलेन देहप्रभावितानेन क्षालयन्निव दिगन्तराणि, आमोदिना च क्षरता शिशिरेण शीतज्वरमिव जनयतामृतशीकैरवर्षेण तुषारपटलेनेवानुलिम्पन्, चन्दनरसच्छटाभिरिवासिञ्चन् ऐरावतकरपीवराभ्यां बाहुभ्यां मृणालधवलाङ्गु- शीर्तेलस्पर्शाभ्यां तमुपरतर्मुत्क्षिपन्, र्दुन्दुभिगम्भीरेण स्वरेण 'वत्से महाश्वेते, न त्वया प्राणाः । पुनरपि तवानेन सह भविष्यति समागमः' इत्येवं पितेवाभिधाय स- गगनतलमुदपतत् । अहं तु तेन व्यतिकरण सभया सविस्मया सकौतुका चोन्मुखी मेति कपि जलमपृच्छम् । असौ तु ससंभ्रममदत्त्वैवोत्तर मुदतिष्ठत् । दुरात्मन्, क मे पहृत्य गच्छसि' इत्यभिधायोन्मुखः संजातकोपो बन्नन्सवेगमुत्तरीयवल्कलेन परि- उत्पत्योत्पतन्तं तमेवानुसरन्नन्तरिक्षमुदगात् । पश्यन्त्या एव च मे सर्व एव ते तारागण - , , 3 , १ उष्णीष ग्रन्थिर्मूर्धवेष्टन ग्रन्थिर्येन सः | अलीति | अलिकुलवमरसमूहवन्नीलाः श्यामाः कुटिल - = तलाः केशास्तेपां निकरः समूहस्तेन विकटो विपुलो मौलियस्य सः | उत्फुल्लेति । उत्फुल्लं विक- कुमुदं कैरवं तस्य कर्णपूरं कर्णाभरणं यस्य सः । कामिनीति | कामिन्या योषितः कुचयोः स्तनयोः लता केसरपत्रभङ्गिस्तया लाञ्छितश्चिह्नितोंऽसदेशः स्कन्धप्रदेशो यस्य सः । कुमुदेति । कुमुदव- लवद्धवलः शुभ्रो देहः शरीरं यस्य सः | महाप्रमाणोऽतिदीर्घं एवंविधः पुरुषो नरः । महेति । म. उत्तमपुमांसस्तेषां लक्षणैः सामुद्रिक शास्त्रोक्तैर्ध्वजादिमिश्चिक्षैरुपेतः सहितः | दिव्येति । दिव्या मनो- कारो यस्य सः । स्वच्छेति । स्वच्छं निर्मलं यद्वारि जलं तद्वद्भवलेन शुभ्रेण | देहेति | देहप्रभायाः वितानेन समूहेन दिगन्तराणि दिग्विवराणि क्षालयन्निव निर्मलानि कुर्वन्निव । आमोदीति । परिमलवता | तस्य देहस्यामृतमयत्वात् । शरीरतो देहतः क्षरता प्रस्रवता । शिशिरेति । शिशि- लेन शीतज्वरमिव जनयतोत्पादयता एवंविधेनामृतशीकरवर्षेण पीयूषशीकरवृष्ट्या तुषारपटलेनेव नेवालिम्पन्विलेपयन् । दिगन्तराणीति शेषः । गो इति । गोशीर्षाभिधानं यचन्दनं तस्य रसो छटाभिरिवासिञ्चन्नासेकं कुर्वन् | ऐरावतेति | ऐरावतो हस्तिमल्लस्तस्य करः शुण्डादण्डस्तद्वत्पीव- टाभ्यां वाहुभ्यां भुजाभ्याम् | मृणालेति । मृणालं बिसं तद्वद्धवलाः श्वेता अङ्गुल्य: करशाखा गीतलेति । शीतलः शिशिरः स्पर्शी ययोस्ताभ्यां बाहुभ्यां तमुपरतं मृतमुत्क्षिपनुत्पाटयन् । इत्येवं- पितेव जनक इवाभिधायेत्युक्त्वानेन मृतकेन सहैव गगनतलमाकाशतलमुदपतदुत्पपात | इतिथोत्य- हुन्दुभीति | दुन्दुभिः पटहस्तद्वद्गम्भीरेण स्वरेण शब्देन । हे वत्से महाश्वेते, लया प्राणा असवो न हेयाः । अनेन पुण्डरीकेण सह पुनरपि तव समागमो भविष्यति । अहं त्विति । अहं तु करेण तेन वृत्तान्तेन सभया सातका, सविस्मया साश्चर्या, सकौतुका सकुतूहला चोन्मुख्यूर्ध्व वदना aai as: समं सत्वर ।