पूर्वभागः । २७९ , न्तरेणोपसृत्य मामागच्छन्तीं पृष्ठतो भर्तृदारिकामुद्दिश्याप्राक्षीत् – 'बालिके, केयं कन्यका, कस्य वापत्यम्, किमभिधाना, व वा गच्छति' इति । मयोक्तम् – 'एषा खलु भगवतः श्वेत- मानोरंशुसंभूतायामप्रसि गौर्या समुत्पन्ना देवस्य सकलगन्धर्वमुकुटमणिशलाकाशिखरो- ल्लेखमसृणिते चरणनखचक्रस्य प्रणयप्रसुप्तगन्धर्वका मिनी कपोलपत्रलतालाञ्छितभुजतरुशि- खरस्य पादपीठीकृतलक्ष्मीकरकमलस्य गन्धर्वाधिपतेर्हसस्य दुहिता महाश्वेता नाम गन्धर्वाधि- वासं हेमैकूटाचलमभिप्रस्थिता' इति कथिते च मया किमपि चिन्तयन्मुहूर्तमिव तूष्णीं स्थित्वा विगतनिमेषेण चक्षुषा चिरमभिवीक्षमाणो मां सानुनयमर्थितामिव दर्शयन्पुनराह –'बालिके कल्याणिनि तवाविसंवादिन्यचपला बालभावेऽप्याकृतिरियम् । तत्करोषि मे वचनमेकमभ्य- र्थ्यमाना' इति । ततो मया सविनयमुपरचिताञ्जलिपुटया दर्शितादरमभिहित: – 'भगवन्, कस्मादेवमभिधत्ले । काहम् | महात्मानः सकलत्रिभुवनपूजनीयास्त्वादृशाः पुण्यैर्विना नि- खिलकल्मषापहारिणीमस्मद्विधेषु दृष्टिमपि नै पातयन्ति, किं पुनराज्ञाम् । तद्विश्रब्धमा- । निविडं यदन्तरं विचालं तेन मामागच्छन्तीं पृष्ठतः पश्चाद्भाग उपसृत्य समीपमागय भर्तृदारिकामुद्दिश्या- श्रित्येत्यप्राक्षीत्प्रश्नमकार्षीत् । किं प्रकृतवानित्याह-वालिके इति । हे बालिके हे कन्यके, केयं कन्यका कस्य वापत्यं प्रजाः । किमभिधाना किंनाम्नी | क्व वा गच्छति व्रजति । त्वया किमुक्तमित्याह – मयेति । मयेत्युक्तं कथितम् । इतिवक्तव्यतामाह -- एषेति । एषा खलु निश्चयेन भगवतः श्वेतभानोर्गन्धर्वाधिपतेरं- शुसंभूतायां सोममयूखसंभूतायामप्सरसि गौर्या समुत्पन्ना संजाता गन्धर्वाधिपते हैं सस्य दुहितात्मजा | अथ हंसं विशिनष्टि – सकलेति । सकलाः समग्रा ये गन्धर्वा देवगायनास्तेषां मुकुठेषु मणिदृढबन्धार्थ शलाकाः स्वर्ण- मय्यस्तासां शिखराण्यग्राणि तेभ्यो य उल्लेखः संघर्षरतेन मसृणितं लक्ष्क्षणीकृतं चरणयोर्नखचक्रं पुनर्भवसमूहो य स्य स तथा तस्य | प्रणयेति । प्रणयेन स्नेहेन प्रसुप्ताः कृतनिद्रा या गन्धर्वकामिन्यस्तासां कपोलपत्र- लताभिर्लाञ्छितं चिह्नितं भुजा एव तरवो वृक्षास्तेषां शिखरमत्रं यस्य स तथा तस्य । अनेन सुरतविशेषो द्यो- तितः । पादेति । पादपीठीकृतं पदासनीकृतं लक्ष्म्याः श्रियः करकमलं यस्य स तथा तस्य । एतेन दान- शौण्डत्वं सूचितम् । तस्या यथार्थमभिधानमाह – नामेति कोमलामन्त्रणे | महाश्वेता इति । सांप्रतं क गतेति तदाशयमभिप्रेत्याह - गन्धर्वेति । गन्धर्वाणामधिवासो यस्मिन्नेवंभूतं हेमकुटाचलमभिप्रस्थिता । तदभिमुखं चलितेत्यर्थः । इति मया कथित उक्ते सति किमप्यनाकलनीयं चिन्तयन्ध्यायन्सुहूर्तमिव साधारि- काद्वयसदृशमिव । अत्रापीवशब्दः सदृशार्थ: । तूष्णीं जोषं स्थिला विगतनिमेषेण गेषोन्मेषरहितेन चक्षुषा नेत्रेण चिरं चिरकालं यावदभिसंमुखं वीक्षमाणो मां प्रति सानुनयं सस्नेहमर्थितामिव मार्गणसदृश- मिव दर्शयन्पुनर्द्वितीयवारमित्याह । उवाचेत्यर्थः । इतिवाच्यमाह - वालिके इति । हे बालिके, कल्याणिनीं कल्याणं श्रेयो विद्यते यस्या यस्यां वा सैर्वभूताविसंवादिन्यव्यभिचारिणी । 'यत्राकृतिस्तत्र गुणा भवन्ति ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२७७
दिखावट