पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ कादम्बरी। जातविस्मयस्याभून्मनसि महीपते:-'अहो विधातुरस्थाने सौन्दर्य निष्पादनप्रयत्नः । तथा हि । यदि नामेयमात्मरूपोपहसिताशेषरूपसंपदुत्पादिता, किमर्थमपगतस्पर्शसंभोगसुखे कृतं कुले जन्म । मन्ये च मातङ्ग जातिस्पर्शदोषभयादस्पृश्यतेयमुत्पादिता प्रजापतिना, अन्यथा क- थमियमक्लिष्टता लावण्यस्य । नहि करतलस्पर्शक्लेशितानामवयवानामीदृशी भवति कान्तिः । सर्वथा धिग्धिग्विधातारमसदृशसंयोगकारिणम, मनोहराकृतिरपि रजातितया येनेयमसुर- श्रीरिव सततनिन्दितसुरता रमणीयाप्युद्वेजयति' इति । एवमादि चिन्तयन्तमेव राजानमीष- दवगलितकर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम । कृतप्रणामायां च तस्यां मणिकु-- ट्टिमोपविष्टायां स पुरुषस्तं विहङ्गमं शुकमादाय पञ्जरगतमेव किंचिदुपसृत्य राज्ञे न्यवेदयत् । मित्यर्थः । अतीति । अतिशयरूपोत्कृष्टाकृतिराकारो यस्याः सा तथा ताम् । अन्वयस्तु प्रागेवोक्तः । मनलीति । मनसि जातो विस्मय आश्चर्य यस्यैवंभूतस्य महीपते राज्ञः । एवमित्यध्याहार्यम् । अभूदित्य. न्वयः । एवमित्यरय विषयमाह-अहो इति । अहो इति वितर्के । विधातुब्रह्मणोऽस्थानेऽपदे सौन्दर्य- स्याद्भुतरूपस्य निष्पादनं निर्माणं तत्र प्रयत्नः परिश्रमः । तदेव दर्शयति-तथाहीति । नामेति कोमला- मन्त्रणे । यदीयं चाण्डाल कन्य कात्मनः स्वकीयस्य रूपेण सौन्दर्यणोपहसितोपहास्यास्पदीकृताशेपरूपसं- पत्समग्रसौन्दर्यसमृद्धिर्य या सर्व विधोत्पादिता निर्मिता । किमर्थं किंप्रयोजनम् । अपगते दूरीभूते स्पर्शः संश्लेपः संभोगसुखं सुरतसातं ते च यस्मिन्नेवभूते कुले जन्मोत्पत्तिः कृतं विहितम् । किमर्थमिति विमर्श निश्चयमाह- मन्ये चेति । मन्ये जाने । अहमिति शेषः । प्रजापतिना ब्राणास्पृशता स्पर्शमकुर्वतेयम् उत्पादिता निष्पादिता । अत्रार्थ हेतुमाह-मातङ्गेति । मातङ्गस्य जातिः यातिस्तस्याः स्पर्शः संश्लेषस्तजनितो यो दोषस्तस्माद्यद्भयं भीतिस्तस्मादित्यर्थः । विपर्यये वाधकमाह -अन्यथेति । अन्यथा पूर्वोक्त विपर्यये । लाव- ण्यस्य लवणिम्नः । कथामिति प्रश्ने । इयं प्रत्यक्षोपलक्ष्यमाणाक्लिष्टता कोमलत्वं स्यात् । अत्रार्थे हेतुमाह- नहीति । करतलस्पर्शक्लेशितानामवयवानां कुचादीनाम् ईदृशी एतादृशी कान्तिः सौकुमार्य महि भवति न स्यात् । सर्वथेति । सर्वथा सर्वप्रकारेण । धिग्धिगिति खेदातिशय आम्रेडितम् । विधातार ब्रह्माणमसदृशोऽनुचितो यः संयोगः संवन्धस्तत्कारिणम् । येनासदृश संयोगेनेयं चाण्डालकन्यका मनोहराकृ. तिरपि क्रूरजातितया चाण्डाल जातितयासुराणां दैत्यानां श्रीलक्ष्मीस्तद्वदिव । सततमिति । सततं निरन्तरं निन्दितं गर्हितं मुरत मैथुनं यस्यां सैवंविधा रमणीयापि संभोगयोग्याप्युटेजयति । वैचित्यमुत्पादयतीत्यर्थः । पक्षे सततं निन्दिता सुरता सुरसमूहो ययेति दैत्यलक्ष्म्या विशेषणम् । एवमिति । एवमादि पूर्वोक्त. प्रकारेण । चिन्तयन्तं विम कुर्वाणमेव राजानं नृपं कन्यका चाण्डालकुमारी प्रणनाम प्रणाममकरोत् । केव । प्रगल्भवनितेव संप्रत्यारूढयौवनत्वादप्रगल्भापि प्रगल्भवनितेव नमश्चकारेत्यर्थः । अत्र बीतशङ्कत्वं व्यङ्ग्यम् । प्रणेति प्राद्युपसर्गयोगाण्णत्वम् । पुनः कीदृशी । ईपदिति । ईपदल्पमवगलितोऽधःप्रसृतः कर्णे