सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्व भागः । नाम्, प्रावृषमिव घनकेशजालाम् , मलयमेखलामिव चन्दनपल्लयावतंसाम्, नक्षत्रमाला- मिव चित्रश्रवणाभरणभूषिताम्, नियमिव हस्तस्थितकमलशोभाम, मूर्छामिव मनोहा- रिणीम्, अरण्यभूमिमिव रूपसंपन्नाम्, दिव्ययोषितमिवाकुलीनाम, निद्रामिव लोचनप्रा- हिणीम, अरण्यकमलिनीमिव मातङ्गकुलदूषिताम्, अमूर्तामिव स्पर्शवर्जिताम, आलेख्य- गतामिव दर्शनमात्रफलाम, मधुमासकुसुमसमृद्धिमिवाजातिम्, अनङ्गकुसुमचापलेखामिव- मुधियाह्यमध्याम, यक्षाधिपलक्ष्मीमिवालकोद्भासिनीम्, अचिरोपारूढयौवनाम, अतिशय- रूपाकृतिमै निमिषलोचनो ददर्श । सा तथेति विग्रहः । पुनः कामिव । प्रावृषमिव वर्षाकालमिव । उभयोर्विशेषणसाभ्यमाह-घनेति । घना निविडा ये केशास्तषां जालानि यस्याम् । पक्षे घना एव केशजालानि यस्यामिति विग्रहः । मलयेति । मलयस्य पर्वतस्य मेखला मध्यभागस्तामिव । उभयोः सादृश्यमाह-चन्दनति । चन्दनस्य पल्लवाः किस- ला(लया)नि तेपामवतंसा यस्यां सा ताम् । पक्षे चन्दनपालवास्त एवावतंसः शेखरो यस्यामिति विग्रहः । नक्षत्रेति । नक्षत्राणामुळूनां माला पक्षि:स्तामिव । उभयोः सादृश्यमाह-चित्रेति । चित्राणि विविधप्रका- राणि श्रवणे कर्ण आभरणानि भूपणानि यस्याः सा ताम् । पक्ष चित्राश्रवणावेव आभरण ताभ्यां भूषितेति विग्रहः । श्रियमिति । श्रीलक्ष्मीरतामिव । उभयोः साम्यं प्रदर्शयन्नाह-हस्तेति । हस्ते पाणी स्थिता कमलस्य पद्मस्य शोभा श्रीर्यस्याः सा ताम् । पक्षे हस्ते स्थितं यत्कमलं तेन शोभा यस्या इति विग्रहः । सू छति । मूर्छा मोहस्तामिव । एतयोः साम्यमाह-मनोहारिणीमिति । सुन्दराकृतित्वेन मनोहरामित्य- थः । पक्ष नष्टचेतनात्मकत्वेन मनोहारिणीमिति भावः । अरणयति । अरण्यमटवी तस्य भूमिः क्षितिस्ता- मिव । उभयोः सादृश्यमाह-रूपेति । रूपमाकृतिविशेषस्तेन संपन्नां सहिताम् । पक्षे रूपाः पशवस्तेः संपन्न संगताम् । 'रूपं तु श्लोकशब्दयोः । पशावाकारे सौन्दर्ये' इत्यनेकार्थः । दिव्येति । दिव्या देवसंबन्धिनी यो- पित्स्त्री तामिव । उभयोः सादृश्यमाह -~-अकुलीनामिति । अकुलीनामकुलोत्पन्नाम् । 'कुलात्खः' । खस्येना- देशः । पक्षे को पृथिव्यां लीनां स्थिताम् । निद्रेति । निद्रा प्रमीला तामिव । उभयोः सादृश्यं प्रदर्शयन्नाह- लोचनेति । अत्यद्भुतरूपवशात्कामिजनानां लोचनग्राहिणी नेत्राकर्षणीम् । पक्षे निमेषोन्मेषसहिते लोचने ग्रहीतुं शीलमस्या इति । शीले णिनिः । नान्तत्वान्टीप । अरण्येति। अरण्यं वनं तस्य या कमलिनी तामिव । उभयोः सादृश्यमाह--मातङ्गेति। माताश्चाण्डालस्तस्य कुलमन्वयग्तेन दूषितां मलिनीकृताम् । पक्ष माता- कुलेन हस्तिसमुदायेन दृपिताम् । मर्दितामित्यर्थः । अमूतति । अमूर्तयत्तावच्छिनपरिमाणशन्या बुद्धि- स्तामिव । उभयोस्तुल्यखमाह-स्पर्श इति । स्पर्शः संश्लेषः शिष्टानां तेन वर्जितां रहिताम् । अकुलीनखादेव । a .. TT TITTE