पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/51

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यतो दूरादेवातिबहूनिव तुरङ्गमानद्राक्षीत्.
दृष्ट्वाचोत्पन्नकुतूहलस्तेषां परिज्ञानायान्यतमं पुरुषं प्राहिणोत्. आत्मनाप्यूरुदघ्नेन
पयसोत्तीर्य सिप्रां तस्मिन्नेव भगवतः कार्तिकेयस्यायतने तत्प्रति
वार्ता प्रतिपालयन्नतिष्ठत्.
तत्रस्थश्च कुतूहलातस्मिन्नेव वाजिवृन्दे निक्षिप्तदृष्टिःपार्श्वस्थितां
हस्तेनाकृप्य पत्रलेखामवादीत्. पत्रलेखे पश्य य एष पुर एवार्ककि
रणनिवारणोल्लासितया प्रेङ्खदालोललम्बशिखया मयूरपिच्छमय्या
छत्रिकया दुर्विभाव्यवदनोश्ववारो ज्ञायते केयूरकोयमिति .याव
त्तया सहैवं निरूपयत्येव तावत्तस्मात्प्रहितपुरुषादुपलव्धामावस्थानं
दृष्टिपथ एवावतीर्य तुरङ्गमादापतन्तं दूराह्रुतागमनधूलीधूसरश्या
मीकृतशरीरं परिवर्तितमिवेतराकारेणोज्ज्ञिताङ्गरागसंस्कारमलिनेन
वपुया विपादशून्येन च मुखेनान्तर्दुःखसंभारपिशुनया च दृष्ट्या
दूरत एवापृष्टमपि कष्टां कादम्बरीसमवस्थामनक्षरमावेदयन्तं केयू
रकमद्राक्षीत्. दृष्ट्वा च दर्शितप्रीतिरेह्येहीत्याहूय ससंभ्रमप्रणतो
पसृतमतिदूरप्रसारिताभ्यां दोर्भ्यो पपर्यप्वजत तम्। अपसृत्य पुनः
कृतनमसकारे तस्मिन्ननामयप्रश्नवचसा संवर्ध्य सर्वानेव तत्सहा
यान्पुरः स्थितं पुनः पुनः सस्पृहमालोक्य केयूरकमवादीत्.
केयूरक त्वद्दर्शनेनैव भद्रं देव्याःसपारिवाराया इत्येतदावेदितम्.
आगमनकारणमपि विश्रान्तः सुखितः कथयिष्यसि. इत्युकवा सभ्रान्तागतारोहकढोकितां करुणीमारूह्य कुतोस्य जनस्य सुखिते
त्यभिदधानमेव केयूरकं पृष्ठतः पत्रलेखां चारोप्य स्वभवनमया
सीत्.तत्र च निपिद्धारोपराजलोकप्रवेशः प्रविश्य वल्लभोद्यानं
सपारिवारेण केयूरकेण सहोत्ताम्यता चेतसाऽचेतित्तमेव दिवसकर
णीयं निर्वर्तयामास. निर्वर्त्य च पत्रलेखाद्वितीयः सुदूरोत्सारित
परिजनः केयूरकमाहूयाब्रवीत । केयूरक कथय देव्याः काद-
म्बर्याः समदलेखाया महाश्वेतायाश्च सन्देशम्.

१ वंक्रिकया इति न