डस्य शरीरं मातस्त्वममृतमयीव जातासि येन वत्सस्य पुनर्वदन-
मालोकितम् इत्यवादीत्।कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन
तेन च तन्निर्विशेषवृत्तिना विलसवतीशरीरस्पर्शेन लव्धसंज्ञापि
लज्जावनम्रमुखी प्रतिपत्तिमूढा मदलेखयाङ्कादवतार्य परवत्येव
यथाक्रममकार्यत वन्दनां गुरूणानाम्ना। 'आयुष्मती दीर्घकालमावी
धवाभव' इति कृताशीर्वादा च शनैः शनैस्तैरुत्थाप्यमानातिनिकटे
विलासवत्याः पृष्ठतः समुपवेश्याधार्यत। अथ प्रत्यापन्नचेतनायां
चित्ररथतनयायां चन्द्रापीडमेवोज्जीवितं मन्यमानो राजा त्वईरमि
वास्य गाढमङ्गमालिङ्ग्य चुम्बंश्च पश्यंश्च स्पृशंश्च स्थित्वा मदलेखामा
हूयादिदेश दर्शनसुखमात्रकमस्माकं विधीयमानम्।तच्चास्मा१०
भिरासादितम्। तद्यादृशेनैवोपचारेणैतावतो दिवसानुपचारईतवती
वधूर्वत्सस्य शरीरं स एवोपचारो नास्मदनुरोधाल्लज्जया वा मनागपि
पारईहरणीयः। आवये वयं निष्प्रयोजना द्रष्टार ऎव केवलम्। किम्स्मा
भिरिह सितैर्ग६तर्वा । यस्याः करस्पर्शेनाप्यायितमेतदविनाशि
सैव वधुः ।पार्श्वेऽस्य तिष्ठतु। इत्यादिश्य निर्जगाम। निर्गत्य चोपक लिप्तं
निजावासमाआत्वैव तपस्विवासोचितेऽन्यतमस्मिन्नासन्न एवा
श्रमस्य शुचिशिलातलसनाथे तरुलतामण्डपे समुपविश्य निर्विशे
पदुःखं सकलमेव राजचक्रमाहूय सबहुमानमवादीत्। न भवद्भई
रवगन्तव्यं यथाद्य शोकावेगादेवैतदहमङ्गीकरोमीति। पूर्वचिन्तित
एवायमर्थो यथा वधूसमेतस्य चन्द्रापीडस्य वदनमालोक्य संक्रा?०
मितनिजभरेण मया क्वचिदाश्रमपदे गत्वा पश्चिमं वयः क्षपितव्य
मिति। स चायं मे भागवता ?कृतान्तन पुरक्रुतैः कर्मस्मईर्वा
विरुपैरेवं समुपनमितः । किमपरं क्रियत। अनतिक्रमणीया
नियतिः । अप्रापणीयं नानुभूतमात्मचेष्टाकृतं वत्सस्य सुखम्
प्रजापारईपालनफलं तु पुनर्भवद्भुजेप्वेवमक्षतेपविरहितमस्त्येव।
अन्यथापि हि चेष्टमानेप्वस्मासु सर्वमेव तेप्वेवावस्थितम। तादई
च्छामि चिरकाङ्घितं मनोरथं पूरयितुम् धन्याश्च जरापीतसारत
पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/139
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति