पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/104

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धाराधरजलक्लिन्नतरुतलम्, आप्लावितोपान्तहरितशाद्वलम्, असे-
व्यतटलतावनम्, अनवरतरोधोजलप्रवेशकलुपितप्रान्तम्, अवशी-
र्यमाणोद्दण्डकुमुददलगहनम्, आमगनकमलखण्डम्, उत्प्लवमाना
श्यानकिञ्जल्कदलशकलम्,आजर्जरितकह्लारकुवलयम्य, उद्भान्त-
5 भ्रमदलिवलयम्, उडुनहंससार्थम्, अनवस्थानसारसारसितकरु-
णम्, अवशिप्टदलतलनिलीयमानोच्चकितचवाकायुगलं, उत्क-
म्पितकादम्बककदम्बकाश्रीयमाणेपकूलनद्वलं, उत्कलविरुतक-
लापिबकबृलाककलापाध्यासितोपान्तपादपम्, उपहतं प्रावृषान्यदिव,
दृप्टपूर्वमप्यदृप्टपूर्वमिव, अदत्तदृप्टासुखम्, अनुत्पादितहृदयाह्लादम्,
10 अनुपजनितमानसप्रीति तदेवाच्छदमुपाहितद्विगुणदुःखमाससाद।
 आसाद्य चोपसर्पन्नेव सर्वाश्ववारानादिदेश । कदाचिदसौ
वैलक्ष्यादस्मानालोक्यापसर्पत्येव । तच्चतुर्ष्वीप पार्धेप्ववहिता
भवन्तु भवन्त इति | आत्मनापि तुरगगत एव खिन्नोप्यीखन्न
इव विचिन्वल्लतागहनानि तरुमूलानि शिलातलानि लसन्मण्डपाश्च
15 समन्ताद्बाम। भ्राम्यंश्च यदा न क्वचिदपि किंचिदवस्थानचि-
ह्नमप्यद्राक्षीत्तदा चकार चेतसि । नियतमसौ पत्रलेखासकाशा-
न्मदागमनमुपलभ्य प्रथममेवापक्रान्तो येनावस्थानचिह्नमात्रं कथ-
मपि नोपलक्ष्यते| निरुद्ध्येद्देशं गतश्च क्वाप्यस्माभिरसावेवमन्वि-
 प्टोपि न दृष्टः| तत्कष्टतरमापतितम्| वैशम्पायनमदृष्ट्वास्माप्रदे-
20 शात्पदमपि गन्तुं पादावेव नोत्सहेते मे| मन्मथशरविक्षिप्ताश्च
कादम्बरीदर्शनमात्रकावलम्वनाः क्षणमपि विलम्वमन्तरीकर्तुम-
क्षमाः क्षामतया मा याआसिपुः प्राणाः| सर्वथा विनष्टोस्मि| न
दृष्टा देवी कादम्वरी| नापि वैशापायनः| इत्येवमुत्पन्ननिश्चयो-
प्यपारईच्छेद्यस्वभावत्वात्मत्याशायाः कदाचिदस्य वृत्तान्तस्यभिज्ञा
25 महाश्वेतापि भवत्येव तत्तां तावत्पश्यामि ततो यायुत्तां प्रतिपत्स्य


१ धाराधरक्लिन्न० इआतईनप २ अशेपतट इआतई न ३ हलक