पृष्ठम्:कादम्बरीकथासारः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री त्रिविक्रमविरचितः

तन्मध्यवर्तिनं घोरं प्रथमे वयसि स्थितम् ।
आनामतितर्कश्यादायसेनेव निर्मितम् ॥ ५९ ॥

वराटमालभैवेयै 'भूषणैरावृताननैः ।
सरभसहितैः आन्तैरावृतं विश्वकद्रुभिः ॥ ५० ॥

वीतंसया णभिः कैश्चित् कैश्चिदुन्माधरिमिः ।
बागुराधारिभिः कैश्चित् कैश्चिद्वीफ्कवाहिभिः ॥ ५१ ॥

एवं विधेर्महासत्वैः 'नाभिलैरनुधावितम् ।
व्यलोकयं च मतङ्गनामानं शबरेश्वरम् ॥ ५२ ॥

आसाद्य शाल्मलीमूलमवरोपितकार्मुकः ।
विश्रमाय परिश्रन्तः तत्रैव निषसाद सः ॥ ५३ ॥

विश्रम्य च क्षणं सोऽयं वनेचरचमूपतिः।
किरातैः सकलैः साथै प्रतस्थे पक्कणं प्रति ।। ५९ ॥

गतेषु तेषु सर्वेषु जीर्णः क श्चद्वनेचरः।
अलब्धापिशितस्तत्र पिशितार्थं व्यलम्बत ॥ ५५ ॥

सोऽयं शुककुलैः पूर्णं दुरारोहं वनस्पतिम् ।
पिबन् प्राण निवास्माकं आमूलाग्राद्यलोकयत् ॥ ५६ ॥


1. फ्रेवरें .... वृताननैः इति मातृका । 2. कैश्चिदुन्मादहरिभिः इति मातृका । 3. नाफलैः इति मातृका । ५०. विश्वकमिः मृगयाशुत्रकरित्यर्थ. ५१. भीरं सः आनायः । उन्माथः मृगबन्धनपेटिकविशेषः वागुरा आल{ ५३, नाभिकः शूदशभिः।