पृष्ठम्:काठकोपनिषत्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७५ भाष्यद्वयोपेता २।२।१२ एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ॥ तमात्मस्थं येऽनुपंश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥ नित्योऽनित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्। तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् [शांकरभाष्यम्] किंच-स हि परमेश्वरः सर्वगतः स्वतन्त्र एको न तत्समोऽभ्य- धिको वान्योऽस्ति । वशी सर्वं ह्यस्य जगद्वशे वर्तते । कुतः । सर्वभूतान्तरात्मा । यत एकमेव सदेकरसमात्मानं विशुद्धविज्ञानरूपं नामरूपाद्यशुद्धोपाधिभेद- वशेन बहुधानेकप्रकारं यः करोति स्वात्मसत्तामात्रेणाचिन्त्यशक्तित्वात् । तमात्मस्थं स्वशरीरहृदयाकाशे बुद्धौ चैतन्याकारेणाभिव्यक्तमित्येतत् । न हि शरीरस्याधारत्वमात्मनः । आकाशवदमूर्तत्वात् । आदर्शस्थं मुखमिति यद्वत् । तमेतमीश्वरमात्मानं ये निवृत्तबाह्यवृत्तयोऽनुपश्यन्ति आचार्यागमो- पदेशमनु साक्षादनुभवन्ति धीरा विवेकिनस्तेषां परमेश्वरभूतानां शाक्ष्वतं नित्यं सुखमात्मानन्दलक्षणं भवति नेतरेषां बाह्यासक्तबुद्धीनामविवेकिनां स्वात्मभूतमप्यविद्याव्यवधानात् ॥ १२ ॥ किंच-नित्योऽविनाश्यनित्यानां विनाशिनाम् । चेतनश्चेतनानांचेतायितृणां ब्रह्मादीनां प्राणिनामन्निनिमित्तमिव दाहकत्वमनग्नीनामुदकादीनामात्मचैतन्य- [प्रकाशिका] र्भूत्वाक्षिणी प्रापिशत् ' ऐ. अ. १ ख.२ इति श्रुत्यनुसारेण यथा सूर्यश्चक्षुराधिष्ठातृतया तदन्तर्गतोऽपि बहिर्निर्गतैश्चक्षुर्मलादिभिर्न स्पृश्यते तथा परमात्मा सर्वभूतेष्वात्मतया वर्तमानोऽपि तद्वतैर्दोषैर्न स्पृश्यते । तस्य स्वाभाविकापहतपाप्मत्वादिगुणयुक्ततया स्वेतरसमस्तबाह्यत्वात् । विलक्षण- त्वादित्यर्थः ॥ ११ ॥ एकः समाभ्यधिकरहितः । वश इच्छा सोऽस्यास्तीति वशी जगद्वशे वर्तत इत्युक्तरीत्या वशवर्तिप्रपञ्चक इत्यर्थः । “इमौ स्म मुनिशार्दूल किंकरौ समुपस्थितौ । ' इत्युक्तरीत्या भक्तवश्य इति वार्थः । एकं बीजं तम "परे देवे मनस्येकी भवति " प्र. ४।२ इति श्रुत्युक्तरीत्या स्वेनैकी- भूताविभागावस्थं तमोलक्षणं बीजं महदादिबहुविधप्रपञ्चरूपेण यः करोति तं य आत्मनि तिष्ठन्नित्युक्तरीत्या स्वान्तर्यामिणं ये पश्यन्ति तेषामेव मुक्तिरित्यर्थः ॥ १२ ॥ नित्यश्चेतन एक एव सन्बहूनां नित्यानां चेतनानामपेक्षितानर्थाननाया- सेन प्रयच्छति । स्पष्टोऽर्थः ॥ १३ ॥