पृष्ठम्:काठकोपनिषत्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।२।१४ काठकोप्निषत् ७६ तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ॥ कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४ ॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विघुतो भान्ति कुतोऽयमग्निः तमेव भान्तमनुभातेि सर्वे तस्य भासा सर्वमिदं विभाति ॥ १५ ॥ इति काठकोपानिषदि द्वितीयाध्याये द्वितीया वल्ली समाप्ता ॥२॥(५) [ शांकरभाष्यम् ] निमित्तमेव चेतयितृत्वमन्येषाम् । किंच स सर्वज्ञः सर्वे- श्वरः कामिनां संसारिणां कर्मानुरूपं कामान्कर्मफलानि स्वानुग्रहनिमित्तांश्च कामान्य एको बहूनामनेकेषामनायासेन विदधाति प्रयच्छतीत्येतत् । तमा- त्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिरुपतिः शाश्वती नित्या स्वात्मभूतैव स्यान्नेतरेषामनेवंविधानाम् ॥ १३ ॥ यत्तदात्मविज्ञानं सुखमनिर्देश्यं निर्देष्टुमशक्यं परमं प्रकृष्टं प्राकृतपुरु- षवाङ्मनसयोरगोचरमपि सन्निवृतैषणा ये ब्राह्मणास्ते यत्तदेतत्प्रत्यक्षमेवेति मन्यन्ते, कथं नु केन प्रकारेण तत्सुखमहं विजानीयाम् । इदमित्यात्मबुद्धिवि- षयमापादयेयं यथा निवृत्तैषणा यतयः । किमु तद्भाति दीप्यते प्रकाशात्मकं तद्यतोऽरमद्बुद्धिगोचरत्वेन विभाति विस्पष्टं दृश्यते किंवा नेति ॥ १४ ॥ अत्रोत्तरमिदं भाति च विभाति चेति । कथम्-न तत्र तस्मिन्स्वात्म- भूते ब्रह्मणि सर्वावभासकोऽपि सूर्यो भाति तद्रह्म न प्रकाशयतीत्यर्थः । तथा न चन्द्रतारकं नेमा विघुतो भान्ति कतोऽयमम्मददृष्टिगोचरोऽग्रेि । किं बहुना यदिदमादित्यादिकं सर्व भाति तत्तमेव परमेश्वरं भान्तं दीप्यमा- नमनुभात्यनुदीप्यते । यथा जलोल्मुकाद्यग्निसंयोगाद:ग्निं दहन्तमनु दहति न स्वतस्तद्वत् । तस्यैव भासा दीप्त्या सर्वमिदं सूर्यादि विभाति । यत एवं तदेव ब्रह्म भाति च विभाति च । कार्यगतेन विविधेन भासा तस्य [ प्रकाशिका ] एवमुक्ते शिष्य आह--तदलौकिकं परमानन्दरूपं ब्रह्म करतलामलककदपरोक्षं भवाद्दशा निष्पन्नयोगा मन्यन्ते । भवादृशाः साक्षात्कर्तु शक्नुवन्तीत्यर्थः । कथं रूपादिहीनब्रह्मग्रहणासमर्थमानसोऽहं विजानीयाम् । तत्कि दीप्तिमत्तया भासते तत्रापि विस्पष्टं प्रकाशते । उत तेजोऽन्तरसंवलनान्न विस्पष्टं प्रकाशत इति प्रश्न ॥ १४ ॥ परमात्मनो योगयुगालम्बनाय " आदित्यवर्ण तमसः परस्तात् "क्ष्वे ३।८ सदैकरूपरूपायेति प्रमाणप्रतिपन्नगुहाश्रयदिव्यमङ्गलविग्रहोऽस्ति तद्वि- शिष्टः परमात्मा विभाति सर्वातिशायेिदीप्तिमानित्याह । अयं च मन्त्रः