पृष्ठम्:काठकोपनिषत्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।२।२३ काठकोओअनिषत् ४६ नायमात्मा प्रवचनेन लभ्यो न मेधया न बहूना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूस्वाम् ॥ २३ ॥ नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ॥ नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ २४ ॥ [शांकरभाष्यम्] यद्यपि दुर्विज्ञेयोऽयमात्मा तथाप्युपायेन सुविज्ञेय एवेत्याह- नायमात्मा प्रवचनेनानेकवेदस्वीकरणेन लभ्यो ज्ञेयो नापि मेधया ग्रन्थार्थधारणशक्त्या । बहुना श्रुतेन केवनेन । केन तर्हि लभ्य इत्युच्यक्ष्ते यमेव स्वात्मानमेष साधको वृणुते प्रार्थयते तेनैवात्मना वरित्रा स्वयमात्मा लभ्यो ज्ञायत एवमित्येतत् । निष्कामस्यात्मानमेव प्रार्थयत आत्मनैवात्मा लभ्यत इत्यर्थः । कथं लभ्यत इत्युच्यते--तस्यात्मकामस्यैष आत्मा विवृ- णुते प्रकाशयति पारमार्थिकीं तनूं स्वां स्वकीयां स्वयाथात्म्यमित्यर्थः ॥ २३ ॥ किंचान्यत्–न दुश्चरितात्प्रतिषिद्धाच्छूतिस्मृत्यविहितात्पापकर्मणोऽवि- रतोऽनुपरतः । नापीन्द्रियलौल्यादशान्तोऽनुपरत: । नाप्यसमाहितोऽनेका- ग्रमना विक्षिप्तचित्तः । समाहितचित्तोऽपि सन्समाधानफलार्थित्वान्नाप्यशा- न्तमानसो व्यापृतचित्तः । प्रज्ञानेन ब्रह्मविज्ञानेनैवं प्रकृतमात्मानमाप्नुयात्। यस्तु दुश्चरिताद्विरत इन्द्रियलौल्याच्च समाहितचित्तः समाधानफलादप्यु पशान्तमानसश्चाचार्यवान्प्रज्ञानेन यथोक्तमात्मानं प्राप्तोतीत्यर्थः ॥ २४ ॥ [प्रकाशिका]ईदृशात्मप्राप्त्युपायं दर्शयति--अत्र प्रवचनशब्देन प्रवचनसाधनं मननं लक्ष्यते । उत्तरत्र न मेधया न बहुना श्रुतेनेति वक्ष्यमाणध्यानश्रवणसम- भिव्याहारबलेन प्रवचनशब्देन मननस्यैव गृहीतुमुचितत्वात् । अध्यापन- रूपस्य प्रवचनस्य हेतुत्वाप्रसत्तेश्च । तथैव व्यासार्यैर्विवृतत्वाञ्च । एष आत्मा यं साधकं प्रार्थयते तेन लभ्यः प्रार्थनीयपुंसा लभ्य इत्यर्थ तत्प्रार्थनीयत्वं च तत्प्रियतमस्यैव पुंसः । प्रियतमत्वं च तत्प्रीतिमत एव । ततश्च भगवद्विषयिण्युपासकस्य प्रीतिर्भगवत उपासके प्रीतिमुत्पाद्य तत्प्रा- प्तिहेतुर्भवतीत्यर्थः । तस्योपासकस्यैष आत्मा परमात्मा स्वरूपं प्रकाशयति स्वात्मानं प्रयच्छतीत्यर्थः । वृणुत इति पाठेऽपि स एवार्थः ॥ २३ ॥ परमात्मप्राप्तिहेतूपासनाङ्गतया कांश्चिद्धर्मानुपदिशति-“नाविरतो दुश्चरि- तात् ’ इत्यादि यस्तु परदारपरद्रव्यापहारादनिवृत्तः । अनुपशान्तकामक्रोध- वेगः, नानाविधव्यापारविक्षिप्ततयाऽनवहितचित्तः, अनिगृहीतमनाश्चैतं परमा- त्मानं प्रज्ञानेन नाप्नुयादित्यर्थः । पुरुषार्थस्यैवानृतवदननिषेधस्य दर्शपूर्ण-