पृष्ठम्:काठकोपनिषत्.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६९ काठकोपनिषद्भाष्यद्वयै २।३।१२

विषयाणां घटादीनां व्यभिचारेऽपि सद्बुद्धेरव्यभिचारदर्शनाद्बुद्धेश्व स्वत प्रामाण्यात्सन्मात्रं वस्त्वभ्युपगन्तव्यम् ॥ १२ ॥ [ प्रकाशिका ] [ पृ. ८५ ] न्यूनसंख्यावादा इति । श्रुतिस्मृतिप्रा- माण्यात्पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्चेत्येकादशैवेन्द्रियाणि । यत्र वाक्येऽतो न्यूनेन्द्रियसंख्या तत्रैतान्येवैकादशसु विशेषोपकारकारीणी- त्यर्थो ज्ञेयः । यत्रैकादशभ्योऽधिकानीन्द्रियाणि प्रोच्यन्ते तत्र मनोवृत्ति- भेदेनाधिकसंख्या लापनीया अयमर्थः । अन्यान्यधिकानीन्द्रियाणि मनोवृत्तिभेदजन्यत्वान्मनस एव भेदरूपाणि तेन मनसि तेषामन्तर्भाव उपनिषदेकगम्यत्वादिति औपनिषदं पुरुषं पृच्छामि ’ इति श्रुतेः । उपनिषदि दृष्ट औपनिषद ॥ १२ ॥ २।३।१३ [ शांकरभाष्यम् ] सोपाधिकस्यात्मनो ज्ञानान्मुक्तिर्न संभवतीत्यतो निरुपाधिकज्ञानाय प्रयतितव्यमित्याह-यदा त्विति । बुध्घाघुपाधिक आत्म- नि प्रथमं स्थिरीभूतस्य चेतसस्तद्द्वारेण लक्ष्यपदार्थावगमे सति क्रमेण वा- क्यार्थज्ञानं संभवतीत्याह--तत्रापीति । [ प. ८६ ] सत्कार्योपाधिकृ- तास्तित्वप्रत्ययेनेति । सदुपलभ्यमानं कार्यमुपाधिर्यस्य कारणत्वस्य तत्कृ- तो योऽस्तित्वप्रत्ययः कारणत्वादम्ति पर आत्मेति तेनोपलब्धस्य ॥ १३॥ [ प्रकाशिका ] [ पृ. ८६ ] भुक्ता ब्राह्मणा इतिवदिति । भुक्तम- स्ति येषामिति मत्वर्थीयोऽच । अर्श आदित्व्रादच्प्रत्ययः । तद्वदुपलब्धस्ये त्यत्रोपलब्धमस्त्यस्येत्युपलब्धवत इत्यर्थः । विवृतं चैतत्सिद्धान्तकौमुद्याम् । यथासंख्यं संबन्धः । विक्ष्लिष्टाश्लिष्टेत्यादि । पूर्वदुरितं संचितरूपं विश्लिष्टं, उत्तरदुरितं क्रियमाणरूपमक्ष्लिष्टं यस्य । संचितक्रियमाणदुरितरहित इत्य- र्थः । अनुपोष्येति । “ उष दाहे ’ इत्यस्योपोपसर्गपूर्वकस्य रूपं तदाह- अदग्ध्वैवेति । इत्यभिप्राय इति । अस्मिन्मते जीवन्मुक्त्तेरस्वीकारादेवमभि- प्रायकथनम् । श्रीभाष्ये समन्वयाधिकरणे जीवन्मुक्तिः खण्डयते । का चेयं जीवन्मुक्तिरित्यादिना ॥ १३ ॥ २।३।१५ [शांकरभाष्यम्] [पृ.८७] उपदेश इति । उपदिश्यत इति व्युत्पत्त्या प्रत्यगाभिन्नः परमात्मोपदेशः ॥ १५ ॥ [ प्रकाशिका ] उपसंहरतीति । श्रुतिरिति शेषः [ पृ. ८७ ] साध- का० २२