पृष्ठम्:काठकोपनिषत्.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।११ बालबोधिनी १६८ नम् । कषायो नाम-लयविक्षेपाभावेऽपि चित्तवृत्ते रागादिवासनया स्तब्धी- भावादखण्डवस्त्वनवलम्बनम् । रसास्वादो नाम—अखण्डवस्त्वनवलम्बनेऽपि चित्तवृत्तेः सविकल्पानन्दास्वादनम् । समाध्यारंभसमये सविकल्पानन्दास्वा- दनं वा । अनेन विध्नचतुष्टयेन विरहितं चित्तं निर्वातदीपवदचलं सदखण्ड- चैतन्यमात्रमवतिष्ठते यदा तदा निर्विकल्पः समाधिरित्युच्यते । तदुक्त्तं गौडपादाचार्यै:–“लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजानी याच्छमप्रातं न चालयेत् ॥ नास्वादयेद्रसं तत्र निःसंग: प्रज्ञया भवेत्" । मां. का. ३।४४-४५ " यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता " भ. गी. ६।१९ इति च । संभवोऽस्तीति । प्रमादो हि बुद्यादिजन्यः । योगारंभकाले प्रमादवर्जनं विधेयतया व्याख्यायानुवादपरतया व्याख्याति- अथवेति ॥ ११ ॥ [ प्रकाशिका ] [ पृ. ८४ ] बाह्याभ्यन्तरेति । चक्षुरादीनि बाह्यकर- णानि मनोऽन्तरिन्द्रियं तेषां धारणा नाम स्वस्वविषयेभ्य आकर्षणम् । अवहितचित्तता-समाधिः । प्रतिक्षणापायेति । चित्तवृत्तिनिरोधात्मको योगः । चित्तस्य चंचलस्वभावत्वाद्योगस्य प्रतिक्षणं विनाशसंभावना । तेन तत्र सावधानता द्योत्यते । अथवा योग एवेष्टोत्पत्तिरूपस्यानिष्टनाशरूपस्य च पुरुषार्थस्य मुख्यं साधनमतस्तत्र सावधानता द्योत्यते ॥ ११ ॥ २।३।१२ [ शांकरभाष्यम् ] [ पृ. ८५ ] कार्यप्रविलापनस्य-कार्यलयस्य । अ- स्तित्वनिष्ठत्वादिति । घटोऽस्तीत्यस्तित्वेन प्रतिपन्नस्य घटस्य मुद्गरादिना नाशे घटाकारस्यैव विनाशो न त्वस्तित्वांशस्य । यतस्तस्यास्तित्वांशस्य क- पालोऽस्तीत्यादिना प्रतीतिः । एवंच कार्यप्रविलापनस्य कारणास्तित्वांशनि- ष्ठत्वान्न शून्यतापर्यवसायी लय इति स्पष्टयति--तथाहीति । सूक्ष्मतारत- म्येत्यादि । स्थूलस्य घटकार्यस्य लये ततः सूक्ष्मं कपालरूपं कारणमव- शिष्यते । तस्यापि लये सूक्ष्मतरं कपालिकापरमाणुपर्यन्तमवशिष्यते । एवं सूक्ष्मतापारम्पर्येण सर्वमूर्तानां लयेऽमूर्तमस्तित्वबुद्धिरूपमवशिष्यते यावद्द- र्शनम् । ननु यद् दृश्यं तदसद्यथा स्वप्रदर्शनमित्यनुमानाङ्गीकारे सद्बुद्धि- रपि नास्तीत्याशङ्क्याह-यदापीति । सद्बुद्धिर्नास्तीति प्रत्ययोऽपि सद्बुद्धिरस्तीत्येव बोधयति । अभावज्ञानं प्रति प्रतियोगिज्ञानस्य कारणा- त्वान्निषेधेनास्तित्वबुद्धेरेव द्योतनात् । बुद्धिरिति। घटोऽस्ति पटोऽस्तीत्यत्र