पृष्ठम्:काठकोपनिषत्.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२।१।६
१५२
बालबोधिनी


[ प्रकाशिका ] व्यष्टिसृष्टरिति । वृक्षा इति व्यष्टिः । वनमिति समष्टिः । कटाक्षेण-कृपाकटाक्षेण ॥ ६ ॥

२।१।७ [ शांकरभाष्यम् ] तिष्ठन्तीमिति । पूर्ववदन्तःकरणांशेन जीवतादा- त्म्यापन्नत्वाद्गुहां प्रविश्य स्थितिः । अनेनापि क्ष्लोकेन हिरण्यगर्भ एव विशे षणान्तरेण बोध्यते ॥ ७ ॥ [ प्रकाशिका ] भाष्यकृतीमिति । श्रीभाष्ये रामानुजाचार्येण । देवता- मयीति । देवताशब्देनेन्द्रियाणां ग्रहणमत आह-इन्द्रियाधीनेति । अपृथक्- सिद्धविशेषणवाचिशब्दस्येति । अस्यार्थः । पाचको गच्छतीत्यादौ विशे- ष्यार्थे विना सिद्धिमलभमानो विशेपणशब्दः पाचकादिर्यथा विशेष्यभतदे- वदत्तार्थको भवति तथा विशेषणार्थे विना सिद्धिमलभमानो विशेण्यवाचक- शब्दो विशेषणार्थको भवति । एवंच तदिति विशेष्यपदं तदात्मकमिति विशेषणवाचकं बभूव । तदात्मकत्वरूपविशेषणार्थे तिना विशेष्यरूपस्य तदित्यर्थस्यैतद्वैतदितिवाक्येऽसंभवात् । इमामेव युक्तिमालम्ब्य क्षेत्रज्ञ चापि मां ’ इत्यत्र मदात्मकमित्यर्थः । देवमित्यत्र देवात्मकमिति श्रीभाष्यकृत्कृ- तोऽर्थश्र । तदात्मकमित्यस्यास्वीकारे जीवररुपं यदस्मिन्मंत्रे बोधितं तस्य प्रकृतपरमात्मनक्ष्चैतद्वै तदित्यनेनैक्यं न संभवेदिति भावः ॥ ७ ॥ २।१|८ [ शांकरमाष्यम् ] उत्तराधरारण्योरिति । शमीवृक्षस्य द्वे काष्ठे ययो- रूध्वधिःस्थितयोर्घर्षनेनाग्निरुत्पद्यते । आभ्यामेव काष्ठाभ्यां यज्ञादावग्रुिरु- त्पाद्यते । तत्रोर्ध्वकाष्ठमुत्तरारणिरधःकाष्ठमधरारणिरिति कथ्यते । अगर्हि तान्नेत्यादि । गर्भिणीनां क्ष्लेष्मवातकरमन्नं तथा कटुकषायात्मकं पानं नेष्ठं तद्भिन्नमनिन्दितमित्यर्थः । सम्यग्भृत इति । सम्यक्तया पोषित इत्यर्थः ॥८॥ [ प्रकाशिका ] [ पृ. ६५ ] अवधारणे-एवकारार्थे । अग्निरित्यस्यस्ट व्याख्यानमग्रनेतेति ॥ ८ ॥

२।१।१०

[ शांकरभाष्यम् ] [ पृ. ६६] सर्व ब्रझेति यदुक्तं तदसंगतं, उपाध्य वच्छिन्नचैतन्यस्य जीवस्य संसारित्वेनोपलभ्यमानत्वेन विरुद्धधर्माक्रान्त पोर्जीवेशयोरैक्यायोगादिति शंका । विरुद्धधर्मस्योपाधिमृलकत्वात् स्वभाव तद्धमैक्यं नासंगतमिति वतुमुपक्रमते--यद्रह्मादीति । इह-जीवोपाधौ