पृष्ठम्:काठकोपनिषत्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४१ काठकोपनिषद्भाप्यद्वये १।२।२४ दुश्चरिताचरणनिषेधमुल्लंध्य यदि कश्चिन्ममोपासना सर्वाङ्गभूता भवत्वि- त्याशंसेत्तर्हि तदसंगतं स्याद्यतस्तस्य सोपासना निरङ्गैव भवेद्दुश्चरित- विरत्यभावात् । पुरुषार्थक्रत्वर्थयोरयं भेदः । पुरुषार्थनियमोल्लङ्घने पुरुषस्य प्रत्यवायः क्रतोर्न वैगुण्यम् । क्रत्वर्थस्याननुष्ठाने क्रतुवैगुण्यं पुरुषस्य तु न प्रत्यवाय इति । तदेतदाह-पुरुषार्थस्यैवेत्यादि । [ पृ. ४७ ] उपा- सनासादुण्यामिति । सन्तश्च ते गुणाश्चांगानि । ते सन्ति यस्यां सा सद्रु- णोपासना । अर्श आद्यच् । ततो भावे प्यञ् । साद्रुण्यं सद्गुणविशिष्टत्वम् । एवं चोपासनायाः सर्वाङ्गविशिष्टत्वमित्यर्थ ॥ २४ ॥

१ । २ । २९ [ शांकरभाष्यम् ] [पृ. ४७] अपर्याप्त इति । यस्य मृत्युरन्नत्वेऽप्यप- र्याप्तोऽन्नं भवितुमसमर्थः सन्केवलशाकादिरूपः ॥ २९ ॥ [ प्रकाशिका ] ब्रह्म क्षत्रमिति सर्वस्य जगत उपलक्षणमित्याह-ब्रह्म क्षत्राख्येत्यादि । स्वयमद्यमानत्वे सतीति । शाकाघुपसेचनं स्वयमद्य- मानमप्यन्यस्याद्यमानत्वे सहायं भवति तद्वन्मृत्युः स्वयमद्यमानोऽपि परमे- श्वरकृतास्थिरचरादिभक्षणसहायो भवति । ब्रह्मक्षत्रपद्योश्चराचरोपलक्षकत्वं व्युत्पादयति--नन्विति । ओदनस्य मुख्योऽर्थो भक्ष्यमिति । तादृशभक्ष्यस्य भक्षयिता न कोऽपि प्रसिद्धः । अतः सर्वचराचरग्रहणमवश्यं कार्यम् । तथाविधभक्षकत्वस्य परमेश्वरे प्रसिद्धत्वात् । अन्तरादित्यविद्यायां-बृहदा- रण्यकोक्तान्तर्याम्यपासनायाम् । उपासनाप्रकरणत्वासंभवादीति । अत्र मंत्रे यस्मिन् प्रकारे सर्वसंहर्ता स्थितस्तं प्रकारमित्थमिति को वेदेति प्रका- रवेदनासंभवस्य कथितत्वान्नेदमुपासनाप्रकरणम् । अत्रेदं ध्येयम् । पूर्वमन्त्र उपासनासादुण्यमित्यादिबुवतैतद्भाष्यकृतास्य प्रकरणस्योपासनात्मकत्वमंगी- कृतमत्र तु तादृशोपासनाप्रकरणत्वं न स्वीक्रियते तदेतद्विरुद्धमिवाभाति । अथौदनशब्देन ब्रह्मक्षत्रगतो विशेषगुण एव कश्चिलक्ष्यतां किमिति सामा- न्येन विनाश्यत्वगुण इत्याशंक्यते-नन्वेवमपीति । अन्निर्माणवक इत्यत्रा- ग्निशब्देन तद्वतपैङ्गल्यमेव माणवके लक्ष्यते नाग्निगतसामान्यधर्मो द्रव्यत्व- मित्याह--नहीति । [ पृ. ४८ ] पूर्वतन्त्रे वार्णितेति । जैमिनीये तुतीया- ध्यायपंचमपादे षष्ठसप्तमाधिकरणयोः सोमभक्षणार्थमध्वर्युप्रवैश्वमसनयनमुद्दि- श्यास्ति । तस्य चायं प्रैषमंत्रः । प्रेतु होतुक्ष्चमसः प्रब्रह्मणः प्रोद्भातृणां प्रय- जमानस्येति । अस्यार्थः । भोश्धमसाध्वर्यवः । होतुर्बह्मण उद्रातृणां यज-