पृष्ठम्:काठकोपनिषत्.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।२५ बालबोधिनी १४२ मानस्य च चमसः प्रैतु गच्छतु । यत्र ते होत्रादयो भक्षयितारः स्थितास्तत्र चमसं सोमभक्षणपात्रविशेषं नयतेत्यर्थः । अत्रेद्रातृणामित्यनेन बहवचना- नुरोधात्सामान्यतः सर्वर्त्विजः प्रति चमसनयनं प्राप्त परंतु विशेषविवक्षयोद्रा- तृन्प्रत्येव नीयते चमसस्तद्वदत्रापि । षोडर्शीत्विक्साधारणाकारमिति । अत्रेदं ध्येयम् । सामान्यतः षोडशानामत्विजां प्राप्तमिति यदत्र बोध्यते तन्न घटते । प्रैतु होतुरित्यादिमंत्रे होतृब्रह्मादीनां वचनादेव प्राप्तिः षोडशेति कथनस्यासांगत्यापत्तेः । समाधत्ते--यद्यपीति । गौण्या लक्षणयेति । गुणा- दागता गौणी । मृत्योर्यो विनाशकत्वरूपो गुणस्तन्निमित्तेत्यर्थः । जघन्यं- गौणम् । अबाधकत्वाभिप्रायेणेति । उपसेचनं, ओदनस्य न बाधकं किंतु संस्कारकमित्यर्थः । रूपितस्येति । रूपकालङ्कारबोधितस्येत्यर्थः । दध्यन्नवदिाति । दधिमिश्रितमंन्न दध्यन्नमत्र यथा दघ्न उपसेचनस्य गौण- त्वेन भानमन्नस्यैव मुख्यतया यद्वदिति भावः । अन्यादनहेतुत्वेत्यादि । उपसेचनं दध्यादि हि स्वयमद्यमानं सदन्यस्यौदनादेर्भक्षणे विलक्षणरुच्यु- त्पत्तिद्वारा साधकं भवति । केवलौदनापेक्षया दधिमिश्रितौदने रुचिविशेषो लोकप्रसिद्धः । चरमश्रुतं—अन्ते पठितम् । बुद्धिलाघवेनेति । कल्पना- लाघवादिति भावः । एवंच ब्रह्मक्षत्रमिति पदाभ्यां विशेषार्थे व्यावृत्य सामान्यतश्चराचररूपोऽर्थो यश्च स्वीकृतः स एव न्याय्य इति तात्पर्यम्२५ अथ काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली । १ । ३ । १ [ शांकरभाष्यम् ] [पृ. ४८ ] नानाविरुद्धफले इति । नाना पृथग्भूतानि तथा विरुद्धफलानि ययोस्ते । प्रतिपत्तिसौकर्ये-ज्ञा नसौकर्यम् । द्वावृतपानस्य कर्तारो किमर्थं निरूप्येते तदाह--एवं चेति । प्राप्ता जीवः प्राप्यं ब्रह्म तथैव गन्तुगन्तव्ये । रूपके रथी प्राप्ता प्राप्यं पदम् । पातृ- सम्बन्धादिति । पाता जीवस्तत्सम्बन्धात् । छत्रिन्यायेनेति । यथा मार्गगामिषु पुरुषेषु केषुचिदेव छत्रिषु छत्रिणो गच्छन्तीति प्रयोगो भवति तद्वदत्रापि कर्मफलपाय्यपायिसमुदाये पिबन्ताविति प्रयोगः । बाह्यपुरुषाका- शसंस्थानं—देहाश्रय आकाशप्रदेशः । अकर्मिणः—ज्ञानिन । पञ्चाग्रय इति । गार्हपत्यो दक्षिणाग्निराप्रवनीयः सभ्य आवसथ्यश्चेत्येते पञ्चाग्नयो येषां ते । घुपर्जन्यपृथिवीपुरुषयोषित्स्वग्निद्दष्टिं ये कुर्वन्ति तेऽग्निहोत्रादि कारिणो वा पञ्चाग्नय इत्यर्थः ॥ १ ॥