पृष्ठम्:काठकोपनिषत्.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२७ काठकोपनिषद्भाष्यद्वये १।२।१ अथ कठोपनिषदि प्रथमाध्याये द्वितीया वल्ली । १ | २ | १ [शांकरभाष्यम्]श्रेयःप्रेयोविभागं विद्याविद्याविभागं च प्रदर्श्याविद्यां हित्वा केबलविद्याभीप्सिनं शिष्य प्रथमं स्तौतीत्याह--परीक्ष्येति । अवगम्येति । तस्मिन्निति शेषः । पृथगेवेति। प्रेयसः श्रेयो भिन्नमेवेत्यर्थः । निःश्रेयसं-मोक्षः । अत्राघुर्वै घृतमितिवल्लक्षणया निःश्रेयसपदेन तत्साधनभूतं ज्ञानं ग्राह्यम् । प्रेय उताप्यन्यदेवेत्यन्वयः। प्रियतरमपीति । पूर्ववल्लक्षणयाभ्युदयसाधनं ज्यो- तिष्टोमादि ग्राह्यम् । भिन्नप्रयोजने इति । बहुव्रीहिसमासः । भिन्ने स्वर्ग- मोक्षरूपे प्रयोजने फले ययोस्ते इत्यर्थः । वर्णाश्रमादिविशिष्टमिति । इदमधिकृतमित्यस्य विशेषणम् । ब्राह्मणो बृहस्पतिसवेन यजेतेति शास्त्रा द्वर्णविशिष्टस्याधिकारः । गृहस्थः सदृशीं भार्यामुपेयादित्याश्रमविशिष्टस्या- धिकारः । आदिपदेन वयोऽवस्थादिग्रहणम् । जातपुत्रः कृष्णकेशोऽग्नीनादस्धी- तेति वयोविशिष्टस्याधिकारः । अविचिकित्सितव्याधेरपां प्रवेशो वेत्यवस्था- विशिष्टस्याधिकार । बध्नीत इति । ’ षिञ् बन्धने ’ इति धातुः । ताभ्या सर्वः पुरुष आत्मकर्तव्यतया प्रयुज्यत इत्यन्वयः । आत्मकर्तव्यत- येति । आत्मनि विद्याविद्ययोः कर्तव्यता कृतिसाध्यता तया । विद्या हेि साधनचतुष्टयसंपन्नं पुरुषं स्वविषये प्रेरयति अविद्या च वर्णाश्रमादिविशिष्टं तं तथा प्रेरयतीत्यर्थ । श्रेयःप्रेयसोरिति । वैपरीत्येनान्वयो न यथा- संख्यतया । अभ्युदयार्थी प्रेयसि प्रवर्तते । अमृतत्वार्थी श्रेयसि प्रवर्तत इत्यर्थः । ताभ्यां-विद्याविद्याभ्याम् । यद्यपीति । विद्याविद्ये भिन्नपुरुषार्था- नुष्ठेयत्वादविरुद्धे अपि स्वरूपविरोधादेव विरुद्धे ते । सहानुष्ठानुमिति । तेनैव पुरुषेण भिन्नकाले ते विद्याविद्ये अनुष्ठातुं शक्येते इत्यर्थः । अदूरदर्शीति । एतस्यैव व्याख्यानं विमूढ इति विचारविकल इत्यर्थः । उपादत्ते-अनु- तिष्ठति ॥ १ ॥ [ प्रकाशिका ] [ पृ. २५ ] मुमुक्षां-मोक्त्तुमिच्छाम् । परस्परविलक्ष- णप्रयोजने अन्योन्यविरुद्धफले । पुरुषार्थात्-मोक्षरूपात् ॥ १ ॥ १ । २ । २ [ शांकरभाष्यम् ] [ पृ. २६ ] श्रेयःप्रेयसोः पुरुषायत्तयोः किमिति पुरुषा बाहुल्येन प्रेयसि प्रवर्तन्त इत्याशङ्कामवतराणिकया दर्शयान्ति-यघुभे इंत्यादिरूपया । दुर्विवेकरूपे इति । इदं श्रेयःसाधनं ज्ञानरूपमिदं