पृष्ठम्:काठकोपनिषत्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।२७ बालबोधिनी १२६ १ । १ । २७ [ शांकरभाष्यम् ] दृष्टवन्त इति । त्वद्दर्शनस्यैव फलं वित्तप्राप्तिः । मया तु तव संगतिर्भाषणमपि चाधिगतं तेन वित्तप्राप्तिः स्यादिति किं व- क्तव्यं [ पृ.२४ ] याम्ये पद इति । स्थित्वेति शेषः । ईशिष्यसीति पर- स्मैपदमार्षम् । यमलोके स्थित्वा पुण्यपापनियामकः स्या इत्यर्थः । कथं हीति । हिशब्दः प्रसिद्धार्थकः । तथाच देवदर्शनादिना समीहितप्राप्तिरिति श्रुतिस्मृतिप्रसिद्धम् ॥ २७ ॥ [ प्रकाशिका ] दृष्टचरीति । पूर्वे दृष्टा भतपर्वे चरट । जातु-कदा- चित्। न्यायादितीति । इति भारतोक्तक्ष्लोकोरीत्येत्यर्थः । हविषा कृष्णव- र्त्नेव भूय एवाभिवर्धते । इत्युत्तरार्धमस्य क्ष्लोकस्य [ पृ. २४ ] मया दीर्घ जीवितरूपवरस्याप्रदाने कथें त्वं जीविष्यसीत्यत आह--न हीति ॥ २७ ॥ १ । १ । २८ [ शांकरभाष्यम् ] उत्कृष्टपुरुषार्थलाभे संभवति निकृष्टं प्रार्थयमानोऽहं विचारमूढः स्यामतोऽपि स एव मे वर इत्याह--यतश्चेति । तात्पर्येण-त. दासक्ततया । ततोऽधिकतरं दुष्प्रापमपि पुरुषार्थ प्रापिपायषुः क तदास्थो भवेदित्यन्वयः । प्रापिपयिषुः-प्रापयितुमिच्छुः। तात्पर्यार्थमाह-न कश्चिदिति। बुभूषति-भवितुमिच्छति । उचै:पदाकाङ्क्षी सर्वो जन इत्यर्थः । तस्मा- दिति । यस्मादहं विवेकी तस्मादित्यर्थः । वर्ण:-गीतिः । रतिः-क्रीडा । प्रमोदः-तदुभयजन्यं सुखम् । निरूपयन्-उत्पत्तिस्थितिनाशवन्तस्ते वर्णादय इति विचारयन् ॥ २८ ॥ [ प्रकाशिका ] एतद्भाष्यमूले ’ अनतिदीर्धे जीविते को रमेत ’ इति पाठः । स एवैतद्भाष्यकृत्संमतः । अत्यल्प ऐहिके जीवित इति व्याख्या- नात् ॥ २८ ॥ । १ | १ | २९ [ शांकरभाष्यम् ] [पु.२५] श्रुतेर्वचनमिति । एतं परलोकविषयं वरं हित्वा नाचिकेता नान्यं वरं वृणीत इति श्रुतेः कथनम् । अत्र मन्त्रे यम- नचिकेत:संवादो नास्तीति भावः । अत्र ’ नचिकेतसं विषयीकृत्यान्यस्याप्य- धिकारनिर्णयार्थ संवादरहितं श्रुतेर्वचनमित्यादि यद्रोपालयतीन्द्रैर्लिखितं ततु चिन्त्यम् ॥ २९ ॥