पृष्ठम्:काठकोपनिषत्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।२० बालबोधिनी १२२ रिक्तो बद्धिव्यतिरिक्त्तो वात्मास्ति नवेति तदनंतरस्था विप्रतिपत्तयः । स आत्मा कर्तृत्वभोक्त्तृत्ववानस्ति नवेति विप्रतिपत्तिरपि ज्ञेया । अन्यत्र ध- र्मादित्याघुक्त्तेः । देहादिव्यातिरिक्तस्यात्मनः प्रत्यक्षत्वाभावान्न प्रत्यक्षेण निर्णयः। तथा परलोकसंबन्ध्यात्मदर्शकलिङ्गाभावान्नानुमितिरपीत्याह--न प्रत्यक्षे- णेत्यादि । एतत्-आत्मास्तित्वम् । तृतीय इति । पाठक्रमापेक्षयेत्यर्थ: ॥ २० ॥ [ प्रकाशिका ] [ पृ. १९ ] याथात्म्यं-स्वरूपम् । विनिर्मृक्ति :- मोक्षः । अस्त्यात्मिका-आस्ति मनुष्ये प्रेत आत्मेति स्वरूपिणी । नास्त्यात्मिका –नास्ति तदात्मेति स्वरूपिणी । केाचिदिति । विज्ञानवा- दिमतमेतत् । वित्तिमात्रस्य –विज्ञानस्वरूपस्य । विज्ञानवादिमतं विवेकवि लास एवभभ्यधायि । बौद्धानां सुगतो देवो विश्धं च क्षणभङ्गुरम् । आ- र्यसत्त्वाख्यया तत्त्वचतुष्टयमिदं क्रमात् ॥ दुःखमायतनं चैव ततः समुदयो मतः । मार्गक्ष्चेत्यस्य च व्याख्या क्रमण श्रूयतामतः ॥ दु:खं संसारिण : स्कंधास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशाय- तनानि तु ॥ रागादीनां गणोऽयं स्यात्समुदेति नृणां हृदि । आत्मात्मीय- स्वभावाख्यः स स्यात्समुदयः पुनः॥ क्षणिकाः सर्वसंस्कारा इति या वास- ना स्थिरा । स मार्ग इति विज्ञेयः सच मोक्षोऽभिधीयते ॥ प्रत्यक्षमनुमानं च प्रमाणद्वितयं तथा । चतुष्प्रास्थानिका बौद्धाः ख्याता वैभाषिकादयः । अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते । सूत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मत । आकारसहिता बुद्धिर्योगाचारस्य संमता । केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुन : || रागादिज्ञानसन्तानवासनोच्छेदसंभवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥ इति। आर्हतमतमाह--अन्य इति। तन्मते हि सम्यग्दशनेनाविद्यास्तमयो मोक्षमार्ग । एतन्मतं च सर्वदर्शन- संग्रह इत्थमभ्यधायि । रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितय- मर्हत्प्रवचनसंग्रहपरे परमागमसारे निरूपितं-सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति । विवृतं च योगदेवेन येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रतिपादिते तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपरपर्यायं श्रद्धानं सम्यग्दर्शनं तथाच तत्त्वार्थसूत्रं—तत्त्वार्थे श्रद्धानं सम्यग्दर्शनमिति । अन्यदपि । रुचिर्जिनोक्ततत्वेषु सम्यक्श्रद्धानमुच्यते । जायते तन्निसर्गेण मुरोरधिगमेन वा ॥ इति ॥ परोपदेशनिरपेक्षमात्मस्वरूपं निसर्गः । व्याख्या-