पृष्ठम्:काठकोपनिषत्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२३ काठकोपनिषद्भाप्यद्वये १।१।२० नादिरूपपरोपदेशजानितं ज्ञानमधिगमः । येन स्वभावेन जीवादयः पदार्था व्यवस्थितास्तेन स्वभावेन मोहसंशयरहितत्वेनावगमः सम्यग्ज्ञानम् । यथो- क्तम्-यथावस्थिततत्वानां संक्षेपाद्विस्तरेण वा । योऽवबोधस्तमत्राहुः सम्य- ग्ज्ञानं मनीषिणः ॥ इति ॥ तज्ज्ञानं पञ्चविधं मतिश्रतावधिमन:पर्यायके- वलभेदेनेति । सांख्यमतमाह-पर इति । एतन्मतं संक्षेपेणेत्थम् । सत्वरज- स्तमोगुणानां साम्यावस्था, अव्यक्ताख्या प्रधानाख्या वा सर्वस्य जगतो मूलप्रकृतिः । सा चैकैव । पुरुषास्तु बहवस्तेच कूटस्था नित्या अपरिणामिना नित्यचैतन्यस्वभावाः । ते च पङ्गवः अपरिणामित्वात् । प्रकृतिस्त्वन्धा जडत्वात् । यदा विषयभोगेच्छा प्रकृतिपुरुषभेददिदृक्षा च प्रकृतेर्भवति तदा सा पुरुषोपरागवशात्परिणामं लभते । तम्याक्ष्चाद्यः परिणामो बद्धेि- रन्तःकरणविशेषः । सैव महत्तत्त्वम् । साच दर्पणवत्स्वच्छा । तस्याश्च बहिरिन्द्रियद्वारा विषयाकारो यः परिणामविशेषो घट इति पट इत्या- कारस्तज्ज्ञानं वृत्तिरिति चाख्यायते । स्वच्छायां बुद्धौ वर्तमानेन ज्ञानेन चैतन्यस्य पुरुषस्य भेदाग्रहादहं जानामीति योऽभिमानविशेषः सैवोपलब्धिः। त्रक्चन्दनादिविषयसंनिकर्षादिन्द्रियद्वारैव सुखदुःखाद्याकारो बुद्धेरेव य परिणामविशेषः स प्रत्ययः । अत एव ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नसंस्कार- धर्माधर्मः सर्व एव बुद्धेः परिणामविशेषाः सूक्ष्मांशेन प्रकृतावेव वर्तमाना अवस्थाभेदादाविर्भवन्ति तिरोभवन्ति च । पुरुषस्तु पुष्करपलाशवन्निर्लेप- स्तथापि बुद्धौ प्रतिबिम्बते । तत्त्वानि तु पञ्चविंशतिः । मूलप्रकृतिरविकृति- र्महदाद्या प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृति- पुरुषः ॥ इति सांख्यकारिकोक्तानि । अद्वैतवादिमतमाह-अपर इति । तद्भावलक्षणं-जीवय परमात्मभावलक्षणम् । विशिष्टाद्वैताभिधं स्वमतमाह-- त्रय्यन्तनिष्णाता इति । त्रयी ऋगादिवेदत्रयी तदन्ता उपनिषदो वेदान्त- पदवाच्यास्तत्र निष्णाता । एतेनास्य मतस्य ग्राह्यता प्रदर्शयेते । अशेषाः संपूर्णा ये हेयास्त्याज्यगुणास्तत्प्रत्यनीका विरुद्धा अनन्तज्ञानानन्दादयो गुणास्तदेकस्वरूपस्य । प्रकारभूतस्य-विशेषणभूतस्य गौणस्येति यावत् । उपेयं—प्राप्यम् । उपेता-प्राप्ता । श्रुतप्रकाशिकायां-एतन्नामकश्रीभाष्यटी- कायाम् [ पृ. २० ] कण्ठोक्त:-प्रत्यक्षमुच्चारितः । अर्थसिद्धः-अर्थाज्ज्ञा- यमानः । तदनुबन्धिज्ञानापेक्ष-उपासनज्ञानापेक्षम् । अन्यथा—जीवस्वरूप मात्रपरत्वे । असंभवादिति । जीवज्ञानस्य सुलभत्वात्तदर्थं प्रलोभनादीना-