सामग्री पर जाएँ

पृष्ठम्:काठकोपनिषत्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काठकोपनिषद्भाष्यद्वये १।१।१९ मधिकृत्य यजेतेति वचनम् । इत्यधिकारलक्षणमिदं सिद्धं भवति । इति ॥ विध्युद्देशस्थेति । विध्युद्देशेो विधिवाक्यं स्वर्गकामो यजेतेति । तत्रत्यस्वर्ग- शब्दस्येत्यर्थः । [ पृ. १५ ] सन्दिग्धेषु वाक्यशेषादिति । अयं न्यायो जैमिनीये प्रथमाध्याये चतुर्थपाद् ऊनत्रिंशत्सूत्रे । तत्र ह्यधिकरणे ’ अक्ताः शर्करा उपदधाति ’ इति विपयवाक्यम् । तदर्थ:– अञ्जनसंस्कृतान्मृत्तिका क्षुद्रपाषाणांश्चिनोति । तत्र केनाक्ता इति भवति संशयः । तेजो वै घृत- मिति वाक्यशेषभूतार्थवादवाक्याद् घृतेनाक्ता इति निर्णयः । प्रेक्षावान्-वि- चारपूर्वकारी । वाक्यशेषावगत इति । यामिन्नोष्णं न शीतमित्यादिना शाबरभाष्य उक्तोपवादस्तेन ज्ञाते। अऽर्थमृत्वागच्छन्ति ततोऽजानत्वागच्छ- न्तीत्यपि वाक्यशेषो ज्ञेयः । यववराहादिष्विवेति । यथा यववराहादिशब्दे- ष्वर्थवादरूपवाक्यशेषान्निर्णयो न लोकप्रसिद्धेः आर्यम्लेच्छप्रसिध्द्योर्विरोधात् । तथाहि-शास्त्रार्थप्रामाण्याधिकरणं नाम जैमिनीये प्रथमाध्याये तृतीयपादे पञ्चममधिकरणम् । तत्र माधवाचार्येरधिकरणरत्नमालायामेवं विवृतम् । तथाहि-- ’यवमयश्चरुर्भवति' वाराही उपानहावुपमुञ्चते इति श्रूयत। तत्र यवशब्दमार्या दीर्घशूकेषु प्रयुञ्जते वराहशब्दं च सूकरे । म्लेच्छास्तु यवश- ब्दं प्रियङ्गुषु वराहशब्दं च कृष्णशाकुनौ। तथासति लोकव्यवहारेण निश्चे- तव्येषु शब्दार्थेष्वार्यम्लेच्छप्रसिध्द्योः समानबलत्वादुभयविधा अप्यर्था विक- ल्पेन स्वीकार्या इति प्राप्ते ब्रमः । शास्त्रीयधर्मावबोधे शास्रप्रसिद्धिर्धलीयसी प्रत्यासन्नत्वादविच्छिन्नपारम्पर्यागतत्वाच्च । शात्रे यवविध्यर्थवाद एवं श्रूयते- यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोत्तिष्ठन्ति । इति । इतरौषधिविनाशकालेऽभिवृद्धिदीर्घशूकेषु दृश्यते । नतु प्रियङ्गुषु तेषामित- रौषधिपरिपाकात्पूर्वं पच्यमानत्वात् । वराहोपानाद्विध्यर्थवादश्चैवं भवति ’वराहं गावोऽनुधावन्ति ’ इति । गवामनुधावनं शूकर संभवति नतु कृष्ण- शकुनौ तस्माद्दीर्घशूकादिर्यवादिशब्दार्थः । लौकिक इति । कौशिकानि सूक्ष्माणि वासांसि स्वर्ग: । चन्दनानि स्वर्ग इति लौकिकवाक्येषु सुखसा- धनत्वरूपगणयोगात्स्वर्गशब्दप्रयोगः । शक्त्यन्तरकल्पनेति । शक्तिनीमेश्वरे- च्छासंकेतः । अन्या शाक्तिः शक्त्यन्तरम् । अयंहेि शास्त्रविदां समयः । यद्रोहर्यादिशब्देष्वनेकार्थेष्वनेकशक्तिकल्पनम् । अत्रतु गौण्यैव निर्वाहः । लोके प्रीतिमात्रवाची स्वर्गशब्दो वेदे निरतिशयप्रीतिवाचको भवत्विति नचेत्यादिना पूर्वपक्ष । तत्समाधानं-यत्रार्थवादानवगतो वैदिकशब्दानाम-