इत्यस्य स्थाने स्वर्गे लोका इति पाठः । अर्थोऽपि भिन्नः । १।१।१५ लोकादिं’ इत्यस्य स्थाने ‘लेोका’ि इति पाठ । १।१।१९ इत्यत्र
- प्रवक्ष्यन्ति’ इत्यस्य स्थाने ‘प्रक्ष्यन्ति’ इति पाठः । १।१।२२
इत्यत्र ‘एतस्य’ इत्यस्य स्थाने “एतै:’ इति पाठः । सच व्याख्यात्रा एतेन' इतिपदेन व्याख्यातः । १॥१॥२८ इत्यत्र :वर्णरतिप्रमोदानति दीधे' इत्यस्य स्थाने ‘वर्णरतिप्रमोदान्नातिदीर्घ' इति भिन्नार्थक: पाठः । एवमग्रेिमवलीष्वपि बहवो भिन्नार्थपाठा उपलभ्यन्ते । समानार्थकपाठास्तू प्रतिपदं दरीदृश्यन्ते । समानवेद्गतसमानशाखायां पाठभेदस्य कुत्राप्य दृष्टत्वात्केन वा तत्र कारणेन भवितव्यमिति मीमांसायां कठशाखाया एव संप्रदायद्वयं स्यादित्यनायत्या कल्पनीयम् । यत आस्तिकाग्रेसरः शाङ्कर मतानुयायी दिगम्बरानुचरमहाभागः कथमन्यथा पाठान्तराणि व्याख्येयत्वे नाङ्गीकुर्यात् । सहस्रशः पाठभेदानां सत्वात्सर्वेऽप्येते कल्पिता इत्यपि वक्तुम शक्यं सुधीभिः । काण्वमाध्यन्दिनशाखाभेदभिन्नत्वाद्यथा बृहदारण्यके पाठ भेदास्तथैवात्रेत्यपि वक्तुमशक्यम् । यतः कठोपनिषदिति शाखाघटितमे वाम्या नाम । काठकोपनिषदथर्ववेदीयाप्यतीति वेबरमहा भागो वदति तेनाथर्ववेदःथां तामनुसृत्य दिगम्बरानुचरमहाभागेन व्याख्यात मित्यपि कल्पमितुमशक्यं यतो दिगम्बरानुचरमहाभागोऽल्या यजुर्वेदगतत्वं यजुषि काठकेषु नाचिकेताश्चियनप्रसंग एव तत्प्रसंगानुसारेण प्रायशोऽ भिहितो न त्वियं परब्रह्मविद्यातः पुनस्तां व्याचिख्यासुः कठ आह' इत्यु क्तार्थप्रकाशिकारम्भे म्पष्टमेव प्रतिजानाति । अयं पाठभेदविषयः पण्डितानां धिषणावैभवं दर्शयत्वित्याशास्महे च । ७ कठोपानपदि सांख्यमतस्यादर्शनम् । केचिदत्रोपनिषदि सांख्यमतादृतप्रधानादिशब्दसमानार्थकाव्यक्तादि शब्ददर्शनात्सांख्यमतं प्रतीयते तन्मतबीजं वात्रास्ति पश्चात्तन्मतं वृद्धिमाप्ती दित्यादि वदन्ति परन्तु तन्न विचारसहम् । यतो बादरायणेनैवानुमानकाधि करणे पूर्वोक्तशंका निराक्रियते । तथाहि-आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च । ब्र. सू. १॥४॥१ कठवलीषु श्रूयते
- महतः परमव्यक्तमव्यक्तात्पुरुषः परः । १॥३॥११ इति । तत्र किमव्यक्त
शब्देन प्रधानमुच्यत उत पूर्वप्रकृतं शरीरामिति संशये सांख्यस्मृतौ महद स्यादात