पृष्ठम्:काठकोपनिषत्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ कठोपनिषदः प्रतीयमानानि तत्त्वानि । एतस्या उपनिषदः पठनसमये वक्ष्यमाणतत्त्वानि प्रतीतिपदमारोहन्ति । १ अतिथिपूजा गृहस्थस्यावश्यकर्तव्यतामारोहति । २ ब्रह्मविद्यया समो नान्यो लोकिो वैदिको वा कामः (१॥१॥२३) । ३ विद्याविद्ये अत्यन्त भिन्ने । प्रायः सर्वेऽप्यविद्यायामेव वर्तन्ते य इहामुत्रफलभेोगविरक्तः स एव विद्याधिकारी (१॥२॥४३) ४ यमेन कर्मणा यमलेोको लब्धः (१॥२॥१०) ६ ब्रह्मणः श्रेष्ठयम् (१॥२॥१४) ६ आत्मा प्रवचनादिभिरलभ्यः किन्तु स्वयं तद्वरणेन लभ्यः (१॥२॥२३) ७ आत्मा ब्राह्मणक्षत्रियादिसर्व प्राणिभक्षकः (१॥२॥२६) ८ अनाद्यविद्याप्रमतैः पुरुषैर्विद्याप्राप्तौ प्रयत्नो विधेयः (१॥३॥१४) ९ गूढात्मज्ञाने यः प्रतिबन्धस्तत्स्वरूपम् (२।१।१) १० ज्ञातुज्ञेयस्य चात्मैक एवेत्यद्वैतम् (२॥१॥१५) ११ ब्रह्मप्राप्तौ वैराग्य मेवैकं साधनम् । (तज्ज्ञानप्राप्तिद्वारैव साधनं भवतीति शास्त्रसिद्धान्तः) (२॥३॥१६) । १२ मन्दब्रह्मविद्रियगमार्ग आस्थेयः (२॥३॥१६) ५ कठोपनिषत्स्थमन्त्राणामन्यत्रोपलब्धिः । एतदुपनिषत्स्था मन्त्राः किंचिद्रेदेनार्थसादृश्येन वान्यत्रोपलभ्यन्ते । कचित्तु यथायथं सर्वाक्षरघटिततयेोपलभ्यन्ते । एतादृशं साम्यं मुण्डकोप निषदि श्वताश्वतरोपनिषदि भगवद्वीतासु चोपलभ्यते । बहुषु स्थलेषपमादि समानम् । सर्वासामपनिषदां भगवद्भीतायाश्च ज्ञानप्रतिपादकत्वादर्थसाम्यं तेन कचिच्छब्दसाम्यमपरिहार्यमेव । म्याक्समुलरमहाभागेन प्रदर्शिता एतदुप निषद्वतमन्त्राणां उपनिषदन्तरमंत्राणां च साम्यनिर्देशाः पुस्तकेषु नोपलभ्यन्तेऽ तस्तदवलम्बन सावधानतया कतव्य सुधाभ: । ६ पाठभेदाः । इयमुपनिषद्दिगम्बरानुचरेति नाम्रा प्रथितेन महाराष्ट्रीयसाधुश्रेष्ठनैक नाथसमकालीनेन केनाचिन्महाभागेनार्थप्रकाशिकाव्याख्यया व्याख्याता । सा च पुण्यपत्तनस्थानन्दाश्रममुद्रणालय मुद्रता । तत्र सान्त वहवा भन्नाथका पाठाः । तत्र प्रथमवलीस्थाः केचिन्निर्दिश्यन्ते । तथाहि-१।१।१२ मंत्रे : न तत्र त्वं न जरया विभेति ? इत्यस्य स्थाने * न तत्र त्वं जरया बिभेषि इत्यतीव भिन्नार्थकः पाठ । यतः प्रथमपाठे नचिकेतस एतद्वाक्यं द्वितीय पाठे मृत्येोरेतद्वाक्यम् । तथा तत्रैवोत्तरार्ध * मोदते ? इत्यस्य स्थाने

  • मोदमे' इति पाठः पूर्ववदेव भिन्नार्थकः । १।१।१३ इत्यत्र स्वर्गलोका