पृष्ठम्:काठकोपनिषत्.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९१ भाष्यदूयोपेता २।३।१९

मा विद्विषावहै ॥ १९ ॥ [ शांकरभाष्यम्] करवावहै निष्पादयावहै । किंच तेजंस्वि नौ तेजस्विनो- रावयोर्यदधीतं तत्स्वधीतमस्तु । अथवा तेजस्वि नावावाभ्यां यदधीतं तदतीव [ प्रकाशिका ] इति जीवपरयोरुपास्यत्वोपासकत्वादिना विशेषितत्वात्तयोरे- वोपासनसौकर्यायैकाधिकरणस्थत्वप्रतिपादनार्थत्वादृतं पिबन्ताविति मन्त्रस्य जीवपरप्रतिपादकत्वमेव । अतो यस्य ब्रह्म च क्षत्रं चेति मन्त्रः परमात्मपर एवेति निर्णीतम् । तथा " अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते ” क. २।१।१२ इति मन्त्रे- ऽङ्गुष्ठमात्रतया निर्दिश्यमानो जीव एव । अङ्गुष्ठमात्रत्वस्य जीवधर्मतया " प्राणाधिपः संचरति स्वकर्मभिः " क्ष्वे. ६।७ " अङ्गुष्ठमात्रो रवितुल्य- रूप: " क्ष्वे. ५।८ “ अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् । " म भा. इति श्रुतिस्मृतिप्रसिद्धत्वादिति पूर्वपक्षं कृत्वा " शब्दादेव प्रमितः " " हृद्यपेक्षया तु मनुष्याधिकारत्वात् ' ब्र. सू. १।३।२४।२५ " कम्प- नात् ” “ ज्योतिर्दर्शनात् " ब्र. सू. १।३।३९।४० इति चतुर्भिः सूत्रै सिद्धान्तः कृतस्तेषां चायमर्थः । अङ्गुष्ठप्रमितः परमात्मा शब्दादेव ईशानो भूतभव्यस्येतीश्वरत्ववाचकेशानशब्दादेव । ननु कथं तर्हि परमा- त्मनोऽङ्गुष्ठमात्रत्वमित्यत्राह-हृद्यपेक्षया तु मनुष्याधिकारत्वात् । हृदि हृदये परमात्मनो वर्तमानत्वात्तदपेक्षयाङ्गुष्ठमात्रत्वमुपपद्यते । न च खरतुर- गादीनामङ्गुष्ठशून्यानां हृदयस्याङ्गुष्ठप्रमितत्वाभावात्तदन्तर्वर्तिनः परमा- त्मनः कथमङ्गुष्ठमात्रत्वमिति वाच्यम् । उपासनाविधायिशास्रस्य मनुष्या- धिकारिकत्वात्तेषां चाङ्गुष्ठसंभवात्तद्भदयवर्तिनः परमात्मनोऽङ्गुष्ठसमपरि- माणस्य हृदयावच्छेदनिबन्धाङ्गुष्ठप्रमितत्वे नानुपपतिः । " कम्पनात् " ब्र. सू. १।३।३९ यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतम् " क. २।३।२ इति समस्तप्राणिकम्पनहेतुभयहेतुत्वस्यास्मिन्न- ङ्गुष्ठप्रमित आम्रानात् । तस्य च परमात्मधर्मत्वस्य “भीषास्माद्वातः पवते" तै.२।८।१ इत्यादिश्रुतिप्रतिपन्नत्वादङ्ष्टप्रमितः परमात्मा । " ज्योतिर्दर्श- नात् । " ब्र. सू. १।३।४० ’ न तत्र सूर्यो भाति न चन्द्रतारकम् ’ क २।२।९५ इत्यङ्गुष्ठप्रमिते सकलतेजक्ष्छादकज्योतिःसंबन्धप्रतिपादनात् तादृशज्योतिःसंबन्धस्याथर्वणे ब्रह्मसंबन्धितया प्रतिपादितत्वाचाङ्गुष्ठप्रमित: परमात्मेत्यर्थः । तथा “ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु