पृष्ठम्:काठकोपनिषत्.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।१९ काठकोपनिषत् ९२ ॐ शान्तिः शान्तिः शान्तिः ॥ [शांकरभाष्यम्]तेजस्वि वीर्यवदस्त्वित्यर्थ । मा विद्विषावहै शिष्याचार्या- वन्योन्यं प्रमादकृतान्यायाध्ययनाध्यापनदोषनिमित्तं द्वेषं मा करवावहा इत्यर्थः। [प्रकाशिका ] परा बुद्धिर्बुद्धेरात्मा महान्परः” क. १।३।१०“महतः परम- व्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः क. १।३।११ इति वाक्ये सांख्यप्रक्रियाप्रत्यभिज्ञानात्पञ्चविंशातिरिक्तपुरु- षनिषेधाच सांख्याभिमतब्रह्मात्मकं प्रधानमेवाव्यक्तशब्देनाभिधीयत इति “अनुमानिकमप्येकेषामिति चेत्’ इति सूत्रखण्डेन पूर्वपक्षं कृत्वा " शरीर- रूपकविन्यस्तगृहीतेर्दर्शयति च ” ब्र. सू. १।४।१ "सूक्ष्मं तु तदर्ह- त्वात् " ब्र. सू. १।४।२ "तदधीनत्वादर्थवत् "ब्र. सू. १।४।३ " ज्ञेयत्वावचनाञ्च " ब्र. सू. १।४।४ "वदतीति चेन्न प्राज्ञो हि प्रकर- णात् " ब्र. सू. १।४।५ " त्रयाणामेव चैवमुपन्यासः प्रक्षश्च " ब्र. सू १।४।६ " महद्वच्च " ब्र. सू. १।४।७ इति सप्तभि: सूत्रैः सिद्धान्तः कृतस्तेषां चायमर्थः । अनुमानिकं नाव्यक्तशब्दाभिलप्यम् । उपासनोपयो- गिवशीकरणाय “आत्मान रथिनं विद्धि शरीरं रथमेव च" क.१।३।३ इतिवाक्ये रथरथ्यादिभावेन रूपितेप्वात्मशरीरबुद्धिमनइन्द्रियविषयेषु रथ- रूपकात्मना शरीरं रथमेव चेति विन्यस्तस्य शरीरस्यैवाव्यक्तशब्देन ग्रह- णसंभवात् । अस्मिश्च प्रकरण इन्द्रियादिवशीकरणप्रकारस्यैव " यच्छेद्वाङ्ग- नसी प्राज्ञः"क०१।३।१३इत्यादौ दर्शनात्तदनुसारेणाव्यक्तशब्देन शरीरमेव गृह्यते । ननु कथमव्यक्तशब्देन व्यक्तस्य शरीरस्याभिधानं तत्राह-सूक्ष्मं तु तदर्हत्वात् । भूतसूक्ष्ममव्याकृतं ह्यवस्थाविशेषमापन्नं शरीरं भवति । ततश्च कारणवाचिनाव्यक्तशब्देन स्थूलं शरीरमेवोपचारादुच्यत इत्यर्थः । ननूक्त- शब्दस्य मुख्य एवार्थोऽस्तु । कुतः स्थूलशरीरे लक्षणाभ्युपगन्तव्येत्यत्रा- ह--तदर्हत्वादिति । स्थूलशरीरस्यैव कार्यार्हत्वात्तस्यैव वशीकार्यत्वाय प्रतिपादनस्यापेक्षितत्वादव्यक्तशब्देन कारणवाचिना स्थूलशरीरलक्षणोचि- तेति भाव । ननु यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते कापिलतन्त्रसिद्धो- पादाने कः प्रद्वेषस्तत्राह तदधीनत्वादर्थवत् । अस्मन्मतेऽव्यक्तस्य पर- मात्माधीनतया तदधिष्ठितत्वेन प्रयोजनवत्त्वमस्ति सांख्यमते तदनभ्युपग- मात्तस्य निष्प्रयोजनत्वमिति भावः । ज्ञेयत्वावचनाच्च । यदि तन्त्रसिद्ध- मेवाविवक्षिष्यत्तदास्य ज्ञेयत्वमविवक्षिष्यत् । व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षं