पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ कम्मप्रदीपः | [ १प्र. ३ख. ] मधुमध्विति यस्तत्र निर्जपोऽशितुमिच्छताम् । गायवानन्तरं सोऽत्र मधुमन्त्रविवर्जितः ॥ ७ ॥ परिशिष्टप्रकाशः | करणज्ञानेऽप्येतदेव समाधानमिति । अन्येतु तदङ्गस्य साङ्गप्रधान- प्रयोगाङ्गस्य उपवीतित्वादेरकरणे न साङ्गप्रधानस्य कृतस्यावृत्तिः नाप्युपवीतित्वादेः करणं, किन्तु विशुस्मरणमेव प्रायश्चित्त- मियाः ॥ ६ ॥ वसिष्ठोक्तादपरान् बहन् विशेषानाह- वसिष्ठोक्तपार्वणे भोक्तुमिच्छतां श्राव्यवेन सम्बन्धि गायत्रयाः पश्चाद्भवोयो मधुमध्वितित्रिर्व्वपो मधुवातेति मन्त्रसहितः सोऽत्र तमन्त्रं विना पठनीयः । एवच भोजनकाले मन्त्रः पठनीय एव पूर्वकाले निषेधात् ॥ ७ ॥ प्रभा । पर्खालोचनया पूर्व्ववचने अन्यथाकरणमकरणपर्य्यवसितमित्यव गम्यते । किन्तु तत्न कर्म॑णः सम्पूर्णत्वार्थं विष्णुस्मरणं कर्त्तव्यम् । “अज्ञानाद यदि वा मोहात् प्रचवेताध्वरेषु यत् । स्मरणादेव तहिष्णोः संपूर्ण स्वादिति श्रुतिः " || इंसि योगियाज्ञवल्को " प्रासङ्गिकमभिधाय वशिष्ठोक्तपार्व्वणादाभ्युदयिके विशेषाने- वाह मधुमध्वितीति । अभितुमिच्छतामिति संबन्धलचणा षष्ठी । तव वशिष्ठोक्तपाचे भोमिच्छतां ब्राह्मणानां श्राव्यता