पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । चरुहोमादिष्वपि नित्यं सर्वदा, नत्वसंभवे भरावादिः । व्याइतिहोमोपस्तरणाभिघारणाद्यर्थमाज्योपयोगात्- सर्वाग्निकर्म- स्वित्युक्तम् ॥ आज्यस्थायाः प्रमाणं तु यथाकामं तु कारयेत् । सुदृढामवणां भद्रां स्थालौमादाय मङ्गलाम् || सुदृढां पाकचमाम्, भद्रां सौम्यदर्शनाम्, मङ्गलां इस्त- घटिताम्, कुलालचक्रनिष्पन्नाया त्रासुरत्वेनामङ्गलवात् । तथाच वच्यति- कुलालचक्रनिष्पन्नमासुर मुण्मयं भवेत् इति । एवं- भूतां स्थालीमुपादाय तस्या आज्यस्थाच्या यथेष्टं परिणामं कुर्यादिति ॥ तिर्यगई समिन्माचा हढा नातिवृहन्मुखौ । म्हण्मय्यौदुम्बरी वापि चरुस्थालौ प्रशस्यते ॥ गर्भप्रस्तर दैव्यांभ्यां प्रदेशप्रमाणा चरस्थाली प्रशस्ता भवति । औदुम्बरी ताम्रमयी, शेषं सुव्यक्तमिति ॥ स्वशास्त्रोक्तश्च सुखिन्नो दग्धोऽकठिनः शुभः । न चातिशिथिलः पाच्चो न च वौतरसो भवेत् ॥ अवयवपर्यन्तत्वाच्छास्त्रस्येति । षष्ठ चतुर्दशाधि- करणे हि — “व्रीहिभिर्यजेत" इति वाक्ये प्रतिनिधौनां नौवाराण- मपि विधानं वर्तते वा नवेति मन्दिय संस्कार विधेः पूर्वं नौवा-