पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[प्र. १ख. ] कम्म प्रदीपः । प्रभा । १७ इति "आचान्तः पुनराचामेहासो विपरिधाय च । ओष्ठौ संस्पृश्व च तथा यत्र स्थातामलोमको" || वशिष्ठेनालीमकोष्ठ स्पर्शे आचमनविधानेन तदनवस्थापा- तात् । न चैतत् परकीयत्वादनाचरणीयमिति वाच्यम् । स्मृत्यु- तस्य परकीयत्वानुपपत्तेः । स्मृत्युक्तमपि स्वशास्त्रविरुद्धं नाचर- लोयमेव | न चात्र तथा अपिच, दत्तः किल स्मृतिकाराणां परिशिष्टकारकल्प इति नैवाव किमपि शङ्गितव्यं भवति । तथाच दक्षेणैवोक्तम्— “उक्त कम क्रमो नोक्तो न कालो मुनिभिः स्मृतः । द्विजानान्तु हितार्थाय दक्षस्तु स्वयमब्रवीत् ॥ इति । न कालस्तत एव हि इति द्वितीयचरणे पाठान्तरम् । आचमने विशेषो गृह्यस्वास् यथासम्भवं स्मृत्यन्त रेभ्यश्चावगन्तव्यः । ग्रन्थगौरवमयादिह न लिखितः । अव ह्यसूत्रे च वारत्रयं जलपान विधानात्, "त्रिचतुर्वा अप आचामेत्” इति गौतमस्वं गोभिलीय व्यतिरिक्त विषयम् । यत्तु उपस्पृशेदिति वचनात् इन्द्रिया- खुप सोपे संस्पृशेत् न रन्ध्रस्थाने समलत्वात् इति नारायणो पाध्यायेनोक्तम् । तदसङ्गतम् । "इन्द्रियाण्यभिः संस्पृशेत्” इति गोभिल सूत्रविरोधात् । समसत्वेऽपि वचनात् स्पर्शे दोषकल्पना- नुपपत्तेः । सामान्यस्य विशेषतरपरत्वोपपत्ते: । "देहाचैव च्युता- मला: " - इति स्मृतदेहच्युतानामेव मलस्वेन देह स्थितानां मलत्वा- भावाच | आस्यादीनां समासेनैकपदेनोपादानं तेषां सोपसर्ग- ।