पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः । परिधायाहतं वासः प्रावृत्य च यथाविधि | बिभृयात्प्राङ्मुखोयन्त्रमावृता वक्ष्यमाणया ॥ १ ॥ परिशिष्टप्रकाशः । नववस्त्र परिधाय उत्तरीयं च कृत्वा पूर्वाभिमुखोयन्त्रं चात्रौ- विल्यादि बच्चमाणपरिपाव्या निष्पीडयेत् । यथाविधीत्यनेन,- “परिधानाइहिः कक्षा निबद्धा ह्यासुरी भवेत् । धर्म्ये कम्मणि विद्भिर्वर्जनीया प्रयत्नतः" ॥ इति योगियाज्ञवल्करोक्तपरिधानविधिः । "सव्यादंसात्परिभ्रष्टः कटिदेशे धृताम्बरः | एकवस्त्रन्तु तं विद्यात् दैवे पित्रेय च वर्ज्जयेत्” | इति शातातपोक्कोत्तरीयधारण विधिय विहित इति ॥ १ ॥ प्रभा । इदानीं मन्यनप्रकारमाह परिधायेति । अऋतं यन्त्रनिर्मु नवमिति यावत् | वास: परिवाय प्रावृत्य च उत्तरीयमपि विधाय । यथाविधीत्युभयत्र संबध्यते । ततश्च परिधाने उत्तरीय- करणे च- “परिधानाइहिः कक्षा निवडा ह्यासुरी भवेत् । घर कम्मणि विद्भिर्वर्जनौया प्रयत्नतः” #