पृष्ठम्:करणकौस्तुभः.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आदर्शपुस्तकोल्लेखपत्रिका ।


 अथास्य करणकौस्तुभनाम्नो ग्रन्थस्य प्रत्यन्तराणि यैर्महाशयैः परहितैकपरायणमनीषया संस्करणार्थं प्रदत्तानि तेषां नामादीनि प्रत्यन्तराणां संज्ञाश्च कृतज्ञतया निर्दिश्यन्ते-

( क ) इति संज्ञितम्-पुण्यपत्तनीयानन्दाश्रममुद्रणालयस्थसंस्कृतग्रनथसंग्रहालयान्तर्गतम् । तच्च समग्रं प्रायः शुद्धमारम्भप्रभृतिसमाप्तिपर्यन्तमेकाकाराक्षरैः सुव्यवस्थितलेखनं द्विगुणवेदाकाशेन्द्वग्नि (३१०८ ) परिमितग्रन्थाङ्काङ्कितं च । जीर्णतयाऽस्य लेखनकालो भूतर्षि ( ७५ ) संवत्सरेभ्यः प्राक्तनः स्यादित्यनुमीयते ।

( ख ) इति संज्ञितम्-एतदप्युपरिनिर्दिष्टग्रन्थसंग्रहालयस्थमेव । गोरसरसरस( ६६६९ ) मितग्रन्थाङ्काङ्कितम् । अस्य लेखनकालः प्रारम्भान्नवमाधिकारसमाप्तिं यावत् खेन्द्वष्टेन्दु ( १८१० ) संख्याकः शकः । तदग्रे नपनैकाष्टैक( १८१२ ) मितः शकः । अक्षराकारलेखनरीतिभेदाल्लेखकभेदः प्रतीयते ।

( ग ) इति संज्ञितम्- ‘रॉयल एशियाटिक सोसाइटी’ एतन्नामकमोहमयीस्थितग्रन्थसंग्रहालयस्थम् । आद्यन्तयोरधिकारत्रितयाधिकारद्वितयविहीनम् । अर्थाल्लेखनकालज्ञानसाधनं गस्ति । तथाऽप्यतिजीर्णतया ‘क’ संज्ञितपुस्तकापेक्षया पञ्चाशत्संवत्सरैः प्राचीनं भवेदिति तर्कयामि । इत्यादर्शपुस्तकोल्लेखपत्रिका।