पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः अर्थ लानचमूवल्लीसमुदायवलोदयः आसेदे नृपचक्रेण समुदायबलोदयः ॥ १॥ (यमकम् ) विकटायर्या रणाटव्यां तत्र सा त्रसदस्युना । यावनी वित्तशौर्यश्रीर्मुमुषे मिषयोधिना ॥२॥ पपौ पापापणापापा वावेचविववाविव । सासासासिः सासुसंसदुदैदादददादिदोः ॥ ३॥ (चतुरहा) स्वराज्यभग्नं क्रुद्धाक्षं कलिनाकपटच्छदम् । सुरन्ध्रसेनाऽनुययौ दमयन्तीदृढं नलम् ॥ ४॥ तथाश्चीयखुरक्षुण्णा दूरमारेणुराजयः। यथोदमञ्जन्नभाभा. दूरमारेणुराजयः ।।५।। पूषेवाम्बुमुचा यावदाजघ्ने जिष्णुना रघुः । लघु तावत्तमुद्देशं रुरुर्मरुदिवापतत् ॥ ६ ॥ रराघोरं रघोर्रघापोरी घोरघोरैघैरघुः । रूरुरोघैरघोरार्घराघाघर्धरघुर्घुरः ॥ ७॥ (व्यचर) la,M ति बिल्ली a.N समुदायवनादयः 2h,M तंत्र for सा०३० d,M मुमुचे sator मुमुचे मिष 4M. खराज्यभो बुधा में SOMमत्तामा for अप्रामा 6, Not found in M 7 M omits en