पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अनुसृतमार्द्रया कमलिनीमकरन्दरुचा परिणतकोकशोकवशवीक्षणवाष्पमरम् रतरसिकाङ्गनानयनदर्पजलस्नपितं समधित मन्दतां सपदि धाम गमस्तिभृतः ॥ ५॥ रविरुचितापतो द्रुतमहारजताद्रिशिला- बहलरसाङ्कपङ्कपटसन्नशफं पतताम् । समजनि वाजिनां गतिरपास्तरयाडस्तगिरा- बहरहरत्ययेऽपि परिवृद्धिमिवानयताम् ॥ ६॥ अधिगतजिह्मभावमुपपादितसंघटनाः सपदि भविष्यदन्धतमसौषभियेव भृशम् । परगिरिशृङ्गमारुरुहुरुष्णकरस्य करा: परपरिभूतिषु प्रथममेव न जाग्रति के ॥७॥ स्फुरदरुणप्रमाभरणभास्वरभावभृतां भृशपरिमण्डलेन बहलोष्मविशेषरुचा। उर इव शार्ङ्गिणः खमथ कुकुमकान्तिजुषा जलधिसुतास्तनेन कृतमाकपिशं रविणा ॥ ८॥ त्रिदिवसदां सदाप्रकटिताशया प्रथिमता* विहततमोगतिर्विजितविष्णुपदः पतनम् । रविरपि नाम साम्प्रतमयं यदयापदहो बत दुरतिक्रमा कृतधियामयि कालगतिः ॥ ९ ॥ गुरुस्थपातसंक्षुभितसिन्धुसमुच्छलित- स्फुरदुरुवाडवानलशिलापटलीतुलना विजडिमशालिनीमभिनिविश्य दशामशनै- रशिशिररोचिषो दशशती रुरुचेऽथ रुचाम् ॥ १०॥ B&M has former for which is suggested