पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः सर्गः- चरममहीधमस्तकतटस्थगितस्व रवे- रवनतिमागताः सरसकुङ्कुमकान्तिरूचः । उपदधुरंशवः परुषपट्टसस्मर द्रुतजगदण्डखण्डकनकस्रुतिसुन्दरताम् ॥ ११ ॥ निपतितमुज्जिहीर्षुरभिसङ्ग(त)पिङ्गलिम ग्रहपतिपद्मरागमणिकन्दुकमम्बुनिधौ । समवतरन्नतिष्ठिपदहःपुरुषोऽतिपट्टु पटमिव पाटलार्चिषमधिद्युतटि प्रकटम् ॥ १२॥ धृतवित्तोष्मणः समभिपत्य बुवो निबिडं बुडिततनोर्दिनद्विपपतेः प्रसभं जलधौ । उपचितचीनपिष्टपरिपुष्टविभाविभवं वपुरथ कुम्भकूटमिव दृश्यमभात् तरणेः ॥ १३ ॥ इदमुद्योपयोगि वपुरप्यभिभावि हि मा ज्वलनमयं जलैर्मम विरोधिभिरापततु । असमरुचावितीव विनिधाय रुचां पटलं पयसि विरोचनो निविविशे विवशोऽम्बुनिधेः ॥ १४॥ पटुकटुकोष्मभिः कनकधातुघटस्य गिरेः कुहरकटाहकेषु रविधामभिरुत्क्कथतः । उपरि भरादिवोच्छलितया छटया गगन प्रतिनवसन्ध्यया सपदि संवलितं शुशुभे ॥१५॥ 12bN bogins with 125 reading fany d12 मभिद्युतपटोऽप्रकटम् for the above. 19, MS omits act and begins with 17 TAIN पुनरभ्य for अधुनध्य विधिशे tor विवश I5D,Mकटक-for कलंक CM shows lacune after yzat, com pleted by N DM shows laoung before maroom pleted by N